Enter your Email Address to subscribe to our newsletters
लखनऊ, 27 अगस्तमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे अत्र लोकभवने आयोजिते कार्यक्रमे बालविकास-पुष्टाहार-विभागे नवचयनितानां 2,425 मुख्यसेविकानां 13 च औषधनिर्मातॄणां नियुक्तिपत्राणि वितरितवान्। एवं प्रदेशस्य सर्वेषु जनपदेषु अपि कार्यक्रमाः आयोजिताः, नियुक्तिपत्राणि च प्रदत्तानि।
कार्यक्रमे संबोधनं कुर्वन् मुख्यमन्त्री योगी आदित्यनाथः अवदत्—“यदा युवा छिद्यते, तदा एषा राष्ट्रियहानिः भवति। 2017 वर्षात् पूर्वं एष एव व्यवहृतः। बेइमान्याः भ्रष्टाचारस्य च कारणात् युवेभ्यः नियुक्तिः न लभ्यते स्म, न्यायालयं यावत् गन्तव्यमासीत्।” विपक्षी-दलानां प्रति संकेतं कृत्वा सः अवदत्—“उत्तरप्रदेशं बीमारु-स्वभावेन न, अपितु राजनीतिकैः दलैः एव निर्मितम्। अत्र मानसिकरोगयुक्ताः राजनीतिकदला युवानां पुरतः परिचय-संकटं उत्पादितवन्तः।”
योगी अवदत्—“अद्य यदि लखीमपुर-अरण्यस्य मध्ये थारू-जनजातेः कन्या कोऽपि चयनं लभते, तर्हि ज्ञातव्यं यत् चयनप्रक्रिया निष्पक्षतया प्रवर्तते। अद्य अत्र द्वे द्वे थारू कन्ये चयनं प्राप्ते। उत्तरप्रदेशः बीमारः नासीत्, अपितु बीमारः कृतः। एषः प्रदेशः 1947 वर्षात् आरभ्य 1960 दशकं यावत् देशस्य अग्रणी-राज्यः आसीत्। 1960 दशके पतनं जातम्। 1990 यावत् अधःपतनम्, 2017 पर्यन्तं दारुणदशा जाता।”
सः अवदत्—“राजनीतिकदला एव प्रदेशं लूटस्थानं कृतवन्तः। किमपि कार्यं लघु-महत्त्वं वा नास्ति। यत्र अवसरः, तत्र कार्यं करणीयम्। अस्माभिः चिन्तितं यत् प्रदेशस्य जीर्ण-विद्यालयभवनानि स्थानान्तरितव्यानि, एकस्मिन् राज्ये अस्याः दुर्घटनायाः अनुभवः जातः। किन्तु रोगी-मानसिकतायुक्ताः दला अस्मान् आरोपयन्तः तस्थुः। तथा राष्ट्रीय-शिक्षानीतिः अन्तर्गतं विद्यालयानां उत्तम-संयोजनं कृत्वा यदा कार्यं कृतम्, तदा अपि राजनीतिकदला जनानां मध्ये भ्रान्तिं प्रसारितवन्तः। अस्माभिः बालानाम् उत्तम-शिक्षा, उत्तम-पोषणाय कार्यं कृतम्।”
मुख्यमन्त्री योगी अवदत्—“2047 वर्षे भारतं विकसितं भवेत्, तस्य मार्गः ग्रामेभ्यः, गलिभ्यः, आङ्गनवाडी-केन्द्रेभ्यश्च गच्छति।”
अस्मिन्नवसरे वित्त-संसदीय-कार्य-मन्त्री सुरेशखन्ना, महिला-बालविकास-मन्त्री बेबीरानी-मौर्य, राज्य-मन्त्री प्रतिभाशुक्ला अपि शासनाधिकाऱिणः च उपस्थिताः आसन्।
------------------
हिन्दुस्थान समाचार