Enter your Email Address to subscribe to our newsletters
- डॉ. मयंक चतुर्वेदी
अमेरिकराष्ट्रपतिः डोनाल्ड् ट्रम्पः भारतस्योपरी टैरिफ्-बाणं क्षिप्त्वा यतः, ततोऽधुना उभयोः राष्ट्रयोः व्यापारसम्बन्धेषु स्पष्टः तनावः दृश्यते। अपरस्मिन् पार्श्वे ट्रम्पेन चीनदेशीयानां षट्लक्षाध्ययनार्थिनां अमेरिकीय-विश्वविद्यालयेषु अध्ययनाय अनुमतिः प्रदत्ता। किन्तु अस्मिन् निर्णयेन स्वयमेव अमेरिकीयजनता अपि स्वराष्ट्रपतिं डोनाल्ड् ट्रम्पम् अप्रसन्ना दृश्यते।
भारतस्योपरि आरोपितः टैरिफः प्रत्यक्षतः अमेरिकीयोपभोक्तारः अनुभविष्यन्ति। भारतः अमेरिका-देशस्य औषधद्रव्याणि (Pharmaceuticals), सूचनाप्रौद्योगिकी-सामग्री (IT Products), अभियान्त्रिक-सामग्री, वस्त्राणि, आभरणानि च महतः आपूर्तिकर्ता अस्ति। यदा एतेषां वस्तूनाम् उपरि अतिरिक्तशुल्कं आरोप्यते, तदा स्वाभाविकतया ते महङ्गाः भवन्ति।
उदाहरणरूपेण—भारतीयाः जेनेरिक्-औषधयः अमेरिकीय-स्वास्थ्यक्षेत्रस्य कृते अतीव आवश्यकाः। तेषां उपरि टैरिफवृद्धिः इत्यस्य फलम्—अमेरिकीयजनानां आरोग्यसेवायाः व्ययः वर्धिष्यते। एषः भारः अधुना स्वयमेव अमेरिकायां विरोधं जनयति।
भारतदेशः अपि टैरिफेण एव प्रत्युत्तरं दातुं शक्नोति। यथा भारतः अपि अमेरिकीय-उत्पादेषु शुल्कवृद्धिं करिष्यति चेत्, तर्हि अमेरिकीयकृषकाः, उत्पादकाः च प्रत्यक्षं आहताः भविष्यन्ति। अमेरिका-देशात् भारतं प्रति गच्छन्ति कृषिपदार्थाः, विमानानि, प्रौद्योगिकी-सामग्री च—एते महङ्गाः भविष्यन्ति, येन अमेरिकीय-निर्यातकानां महानं हानिः भविष्यति।
विशेषज्ञैः पूर्वमेव चेतावनी दत्ता—“टैरिफक्रीडा” उभयोः राष्ट्रयोः कृते “हानिः एव, लाभः कदापि न”।
एतस्मात् कारणात् ट्रम्पस्य निर्णयः न केवलं भारतदेशे, अपि तु अमेरिकायामपि तीव्रतया आलोच्यते।
पूर्व-अमेरिकीय-राजदूतः केनेथ् आई. जस्टरः उक्तवान्—एषः टैरिफः केवलं भारतं प्रति न प्रभविष्यति, अपि तु अमेरिकीय-कम्पन्यः उपभोक्तारश्च महङ्गव्ययम् अनुभविष्यन्ति।
जस्टरस्य वचने—“एषः टैरिफः अमेरिकीय-उपभोक्तॄणां विकल्पान् सीमितं करिष्यति, आयात-वस्तूनाम् मूल्यं च वर्धयिष्यति। तत् परिणामतः भारं सामान्य-अमेरिकीयजनता एव वक्ष्यति।
सः पुनः अवदत्—एषः निर्णयः व्यापारदृष्ट्या अपि प्रतिकूलः, राजनैतिकदृष्ट्या अपि।
अमेरिकी संसदे प्रथमः विरोधः
अद्य अमेरिकीयजनाः स्वस्य राष्ट्रपति प्रति पृच्छन्ति—“किं एषः निर्णयः वास्तवतः अमेरिकायाः दीर्घकालीनहितस्य अनुकूलः?”
प्रथमं विरोधस्वरः अमेरिकीयसंसदस्य अधःसभायाम् उद्भूतः।
हाउस फॉरेन अफेयर्स कमिटी इत्यस्य डेमोक्रैट-सदस्याः ट्रम्प-प्रशासनस्य विरोधं प्रकटयामासुः। वरिष्ठसदस्यः ग्रेगरी मीक्स् तद् “tariff tantrum” इत्युक्त्वा अवदत्—“ट्रम्पस्य एषः नूतनः टैरिफी-तुनकमिजाजी निर्णयः, ये वर्षाणां-पर्यन्तं अमेरिकीय-भारतीय-कूटनीत्या साझेदारीं सुदृढं कर्तुं प्रयासाः कृता, तेषु सर्वेषु जलं क्षिपति।
तेन सञ्चेतना दत्ता—भारतवत् लोकतान्त्रिकः साझेदारः केवलं “पारस्परिकसम्मानपूर्वकं मार्गम्” अनुसरन् चलितुं शक्नोति, न तु मारो दण्डात्मकपदानां अधीनः।
फारेड् जकारिया—अमेरिकीयमाध्यमेषु प्रतिष्ठितस्वरः—एतत् स्वरं सुष्ठु प्रखरं कृतवान्।
सः अवदत्—“ट्रम्पस्य एषः निर्णयः भारत-अमेरिका-सम्बन्धानां दशकमितबाइपार्टिसन-प्रयत्नानाम् पलटनं भवति। अस्य परिणामः—भारतस्य सह अमेरिकस्य सम्बन्धाः स्थायीं हानिं प्राप्स्यन्ति।
तस्य चिन्ता—एषः केवलं व्यापारस्य विषयः न, अपि तु सामरिकसहकारस्य प्रश्नः।
भारतस्य दृढसमर्थिका, पूर्व-यूएन-राजदूतरी निक्की हेली अपि ट्रम्पस्य आलोचना कृतवती।
सा अवदत्—भारतसहित-अमेरिकायाः साझेदारी चीनस्य चुनौतीस्य संतुलनाय अतीव आवश्यकम्।
एतस्मिन् समये एषः टैरिफः अमेरिकीय-रणनीतिक-उद्देश्यान् एव दुर्बलयिष्यति।
तस्याः वचनम्—“अमेरिका-भारतसम्बन्धं सुदृढं कर्तुम् अतीव आवश्यकं, यत् चीनस्य आक्रामकत्वं प्रत्युत्तरयितुं शक्येत। ट्रम्पस्य एषः कदमः तस्य रणनीतिकदृष्टेः दुर्बलनं करोति।
अमेरिकी व्यापारजगत् अपि विरोधं प्रकटयति।
यू.एस्. चेम्बर् ऑफ् कॉमर्स् स्पष्टं उक्तवान्—“यत् नीतिगतं कदमं मुक्तव्यापारसिद्धान्तं बाधते, तस्मिन् वयं विरोधं करिष्यामः।
तैः उक्तम्—“एषः टैरिफः प्रत्यक्षतः अमेरिकीय-अर्थव्यवस्था, व्यापारः, उपभोक्तारः च आहताः भविष्यन्ति। एतेन भारतीयवस्तूनां मूल्यं वर्धिष्यते, अमेरिकीय-कम्पन्याः निर्यातं आयातं च कठिनं भविष्यति।
ट्रम्पस्य एषः टैरिफः भारतं शिक्षयितुं प्रयत्नः न, अपि तु अमेरिकायैव हानिकरः सौदाः जातः।
एषा नीतिरेव “अमेरिका फर्स्ट्” इत्यस्य स्थाने “अमेरिकीयोपभोक्तारः महङ्गायाम् धकेलनीयाः” इत्येव अभवत्।
चीनी-छात्राणाम् प्रवेशः—यू-टर्नः इति।
अपरस्मिन् पार्श्वे, ट्रम्पः हालसमये घोषयत्—सः षट्लक्ष-चीनी-विद्यार्थिनः अमेरिकायां अध्ययनाय अनुमन्यते।
एषः निर्णयः तस्मिन् काले आगतः, यदा अमेरिकीय-प्रशासनम् बारं बारं चीनी-विद्यार्थिनः शोधकर्तॄंश्च जासूसी-आरोपैः आरोपितवन्तः।
स्वयं ट्रम्पः पूर्वं उक्तवान्—“चीनी-नागरिकेषु वीजा-प्रतिबन्धः स्थाप्यः।” किन्तु अधुना द्वारं उद्घाट्य तेषाम् प्रवेशः—सः एकः स्पष्टः यू-टर्नः।
सुरक्षा-विशेषज्ञानां चिन्ता
अनेकाः सुरक्षा-विशेषज्ञाः मन्यन्ते—एषः कदमः अमेरिकायाः प्रौद्योगिकी-श्रेष्ठतां दुर्बलयिष्यति।
पूर्वेऽपि चीनी-शोधकर्तारः संवेदनशील-सूचनाचौर्ये गृहीताः आसन्। अधुना षट्लक्ष-विद्यार्थिनः एकत्र अनुमन्यते चेत्, तर्हि न केवलं जोखिमयुक्तः, अपि तु चीनस्य कृते रणनीतिक-विजयः तुल्यः।
ट्रम्पसमर्थकाः अपि रोषेण
ट्रम्पस्य समर्थकाः अपि अस्मिन् निर्णये अत्यन्तं अप्रसन्नाः।
कन्ज़र्वेटिव्-टिप्पणकारिणी लौरा लूमर चीनी-विद्यार्थिनः “CCP-जासूसाः” इति निर्दिष्टवती।
सा उक्तवती—एतेन राष्ट्रपति-प्रवासननीतिः दुर्बलता प्राप्तवती।
अपि च, सा सोशल-मीडियायां लिखितवती—“अहं ट्रम्पं एतस्मै न वृतवती यत् अधिकं चीनी-नागरिकान् अमेरिका-देशे आनयेत्। मया न मतं यत् अधिकं मुस्लिम-चीनी-आप्रवासी आगच्छेयुः। कम्युनिस्टदेशेभ्यः, शरीयत्कानूनतः आगता अप्रवासी, ये बालकानां विरुद्धं अपराधान् वैधीकुर्वन्ति, ते ‘Make America Great’ न कुर्वन्ति।”
“MAGA”-समर्थकाः सोशल-मीडियायाम् असन्तोषं स्पष्टं प्रदर्शयन्ति।
Axios-रिपोर्ट् इत्यस्यानुसारं—ट्रम्पस्य वफादाराः समर्थकाः एतत् “अमेरिका फर्स्ट”-नारेण विश्वासघातं* मन्यन्ते।
अन्ताराष्ट्रियः विरोधः
एषः विरोधः केवलं अमेरिकायामेव न, अपि तु अन्ताराष्ट्रेऽपि श्रूयते।
अष्ट्रेलियायाः पूर्वप्रधानमन्त्री टोनी एबॉट अपि एषां नीतिं प्रति प्रश्नं कृतवान्।
तस्य मतम्—भारतस्योपरि टैरिफेन अमेरिका स्वीयं “क्वाड्”-सुरक्षागठनं दुर्बलयति।
अन्तिमनिष्कर्षः
एतेषु सर्वेषु वचनेषु स्पष्टं—ट्रम्पस्य रणनीतिः सहयोगिनः दूरं करोति, प्रतिस्पर्धिनः लाभं प्रापयति।
भारतस्योपरि टैरिफः भारतं असन्तुष्टं करिष्यति, यदा चीनः विद्यार्थिरूपेण लाभं प्राप्स्यति।
एतेन अमेरिकीय-शिक्षाक्षेत्रेऽपि अस्थिरता उत्पद्यते।
सारः —ट्रम्पस्य एषा दोहरी चाल अमेरिकीयजनानाम् उपरि द्विगुणितप्रहारो जातः।
भारतस्योपरि टैरिफेन—महङ्गायाः वृध्दिः, नित्यावश्यकवस्तूनां मूल्यं वर्धते।
चीनविद्यार्थिनः अनुमन्यते चेत्—अमेरिकीयविद्यार्थिनां अवसरः सीमितः, सुरक्षा-जोखिमी च वर्धते।
दीर्घकाले—चीनस्य प्रौद्योगिकी-शक्तिर्वृद्धिः सम्भाव्यते।
ट्रम्पस्य राजनीति—“America First” न, अपि तु “Deal First” अभवत्।
यत्र प्रत्येकनीतिः केवलं तात्कालिकसौदस्य कृते कृतं, अनन्तरं यू-टर्नं गृहीत्वा परिवर्त्यते। फिलहाल—अमेरिकायाः एष एव स्वरूपः दृश्यते।
---------------
हिन्दुस्थान समाचार