Enter your Email Address to subscribe to our newsletters
राँची, २७ अगस्तमासः। झारखण्डस्य विभिन्न-जनपदेषु बुधवासरे निर्मले वायौः जनाः बहुं सुविधां प्राप्तवन्तः।
राँची-सहित अनेकेषु जनपदेषु प्रातःकाले सूर्यकिरणाः प्रकटाः आसन्। तेन विभिन्न-स्थानेषु जातः जल-जमावः न्यूनः अभवत्। तथापि कतिपयेषु स्थानेषु मेघाः अपि समाकुलिताः आसन्। विशेषतया गत-त्रय-चतुर-दिनानि राँची-सहित अनेकेषु जनपदेषु निरन्तरं वृष्ट्या सामान्यजनानां जीवनम् अस्तव्यस्तं जातम्। वृष्ट्यां आर्द्राः अनेकाः जनाः रोगग्रस्ताः अभवन्।
चिकित्सालयेषु अधिकांशाः जनाः शीतज्वर-कासः-तथा ज्वरेण पीडिताः आगच्छन्ति। किन्तु सूर्यकान्ते प्राप्ते जनाः सुविधाम् अनुभवन्ति।
यद्यपि मौसम-विभागस्य अनुसारं २९ अगस्तपर्यन्तं राज्यस्य बहुषु प्रदेशेषु अतिवृष्टिः सम्भवति इति चेतावनी—येलो-अलर्टः—प्रकाशितः अस्ति। गतचतुर्विंशतिघण्टाभ्यन्तरे राज्ये सर्वाधिकं वर्षा पश्चिमसिंहभूम-जिलस्य आनन्दपुरे ८५ मि.मी. इति अभिलेखिता।
बुधवासरे राँची-नगरे अधिकतम-तापमानं २७ डिग्री, जमशेदपुरे ३१ डिग्री, बोकारोमध्ये ३० डिग्री, डाल्टनगञ्जे ३१ डिग्री, चाइबासायां च ३० डिग्री सेल्सियस् इति अभिलिखितम्।
हिन्दुस्थान समाचार / अंशु गुप्ता