भारतनेपालपरिषदा कृता महिला–विशेष–सम्मेलनस्य घोषणा, केन्द्रे भविष्यति हिमालयः पर्यावरणं च
भारतनेपाल–हिमालयी–लोकसंस्कृति–परिषदा कृतं विशेषसंवाददाता सम्मेलनस्य आयोजनम् नवदेहली, 27 अगस्तमासः । भारत–नेपाल–हिमालयी–लोकसंस्कृति–परिषदा अद्य प्रेस् क्लब् ऑफ् इण्डिया मध्ये संवाददाता सम्मेलनस्य आयोजनं कृतम्। अस्मिन् अवसरे भारत–नेपालयोः मध्ये सांस्क
रविंद्र सिंह नेगी शांति उप्रेती  को सम्मानित करते हुए।


भारतनेपाल–हिमालयी–लोकसंस्कृति–परिषदा कृतं विशेषसंवाददाता सम्मेलनस्य आयोजनम्

नवदेहली, 27 अगस्तमासः । भारत–नेपाल–हिमालयी–लोकसंस्कृति–परिषदा अद्य प्रेस् क्लब् ऑफ् इण्डिया मध्ये संवाददाता सम्मेलनस्य आयोजनं कृतम्। अस्मिन् अवसरे भारत–नेपालयोः मध्ये सांस्कृतिकसहकारः, हिमालयक्षेत्रस्य परम्पराः, पर्यावरणसंरक्षणं चेत्यादिषु विषयेषु विचारविमर्शः अभवत्।

विशेषरूपेण परिषदा उद्घोषितम् यत् आगामी दिसम्बरमासे उत्तराखण्डस्य हल्द्वानी–नैनीतालक्षेत्रे वार्षिकी संगोष्ठी भविष्यति। तत्र पर्यावरणस्य लोकसंस्कृतेश्च संरक्षणे विशिष्टं योगदानं ददतीनां महिलानां मध्ये विशेषसम्मेलनं भविष्यति।

कार्यक्रमस्य मुख्यातिथिः विधायकः श्री रविन्द्रसिंह नेगी पटपड़गञ्ज–विधानसभा, देहलीसर्वकारः) आसीत। ते मूलतः उत्तराखण्डात् आगतानः, हिमालयीय–कला–संस्कृतेः प्रमुखः नायकः इति प्रसिद्धाः, दिल्लीमध्ये जनसेवायाम् अपि सक्रियभूमिकां निर्वहन्ति ।

स्वसम्बोधने श्री नेगी अवदत् –

“भारत–नेपालयोः सम्बन्धः केवलं पार्श्वदेशयोः नास्ति, किन्तु सामायिकी–संस्कृत्याः, आस्थायाः, परम्परायाः च अविभाज्यः अंशः अस्ति। हिमालयः न केवलं भौगोलिकेन सम्बन्धेन अस्मान् योजयति, अपि तु अस्माकं पौराणिकस्मृतिषु लोककथासु च आधाररूपेण प्रतिष्ठितः। एतादृशम् आयोजनम् अस्माकं परिचयं सुदृढं कुर्वन्ति, भाविन्यः सन्तत्यः अपि निजमूलैः सह सम्बन्धं लभन्ते। अहं भारत–नेपाल–हिमालयी–लोकसंस्कृति–परिषदः प्रयासान् अभिनन्दामि।”

अस्मिन् अवसरे नेपालदेशस्य ख्यातिप्रात्ता गायिकया इब्सल् संजयाल् तथा च उत्तराखण्डस्य रानीखेत–जिलापञ्चायतस्य सदस्यया शान्ति उप्रेति इत्याभ्यां तयोः विशिष्टयोगदानाय “विशेषहिमालय–गौरव–सम्मानं” प्रदत्तम्।

इब्सल् संजयाल् स्वसंस्कृतेः लोकगायनपरम्परायाः महत्त्वं प्रतिपाद्य महिला–सशक्तिकरणे सामाजिकदोषविरोधे च स्वसक्रियाम् अभिकर्मं उल्लेखितवती। शान्ति उप्रेति अपि जैविककृषेः, ग्रामविकासस्य, हिमालयीय–पर्यावरणसंरक्षणस्य च महत्त्वं प्रकाशयन्ती अवदत् यत् “उत्तराखण्ड–नेपालयोः संस्कृतिः परस्परस्य पूरकः। एतस्मिन् सहकारेण एव वयं हिमालयस्य धरोहरं भाविन्यः सन्तत्यः प्रति सुरक्षितं भवितुं शक्नुमः।”

अस्मिन् अवसरे वरिष्ठः लेखकः, पत्रकारः, इतिहासकारः च श्री मदनमोहनः सती, येन सम्प्रति “पर्वतशिरोमणिः भगतसिंहः कोश्यारी” इत्याख्या पुस्तकं लिखितम्, तद् अपि विशेषतः अभिनन्दितम्।

अन्ते परिषदः संस्थापकः भुवनभट्टः सर्वान् अतिथीन्, सञ्चारमाध्यमप्रतिनिधीन्, सहयोगिनः च आभारं प्रकट्य अवदत् यत् “भारतनेपालयोः मध्ये एषः सांस्कृतिकः सेतुः न केवलं अद्यतनः, किन्तु भाविन्यः सन्तत्यः कृतेऽपि धरोहरः। परिषद् अस्मिन्नेव मार्गे भविष्यात् अपि कार्यक्रमान् आयोजयिष्यति।”

---------------

हिन्दुस्थान समाचार