Enter your Email Address to subscribe to our newsletters
-संघकार्यं शुद्धसात्त्विकप्रेमसमाजनिष्ठाभ्याम् आधार्यते - सरसंघचालकः
-त्रिदिवसीया व्याख्यानमाला शतवर्षाणि संघस्य यात्रा नूतनक्षितिजः इत्यस्य द्वितीयः दिवसः
नवदिल्ली, 27 अगस्तमासः (हि.स.)। राष्ट्रियस्वयंसेवकसंघस्य सरसंघचालकः डॉ. मोहनभागवत् अवदत् यत् “समाजे जीवनश्च संतुलनमेव धर्मः। अयं धर्मः सर्वं प्रकारेण अतिवादं रक्षति। भारतस्य परम्परा अस्य नाम मध्यममार्गः। एषः एव अद्यतनजगति महान् आवश्यकता अस्ति। जगतः सम्मुखे आदर्शरूपेण स्थितुं, समाजपरिवर्तनस्य आरम्भः गृहेभ्यः करणीयः।
एतदर्थं संघेन पञ्चपरिवर्तनानि निर्दिष्टानि यत् कुटुम्बप्रबोधनम्, सामाजिकसमरसता, पर्यावरणसंरक्षणम्, स्वबोधः (स्वदेशीभावः), नागरिककर्तव्यपालनं च। तेन उक्तं यद् आत्मनिर्भरभारताय स्वदेशीप्राथम्यम् आवश्यकम्। भारतस्य अन्तर्राष्ट्रीयव्यापारः केवलं स्वेच्छया भवेत्, न कस्यचित् भारेण।
सरसंघचालकः डॉ. मोहनभागवत् विज्ञानभवने आयोजितायां संघशताब्दिवर्षस्य उपलक्ष्ये ‘शतवर्षाणि संघस्य यात्रा – नूतनाः क्षितिजाः’ इति त्रिदिवसीया व्याख्यानमालायाम् द्वितीये दिने समाजं सम्बोधितवान्। अस्मिन् अवसरस्य प्रसंगे सरकार्यवाहः दत्तात्रेयः होसबाले, उत्तरक्षेत्रस्य प्रान्तसंघचालकः पवनजिन्दल तथा दिल्लीप्रान्तसंघचालकः डॉ. अनिल अग्रवालः अपि मञ्चे आसीत्।
संघकार्यस्य स्वरूपम्
मोहनभागवतजी अवदत् यत् “संघकार्यं शुद्धसात्त्विकप्रेमसमाजनिष्ठाभ्यां आधार्यते। संघस्य स्वयंसेवकः कदापि व्यक्तिगतलाभं न अपेक्षते। अत्र प्रोत्साहनानि न भवन्ति, अपि तु प्रतिकूलानि अधिकानि। स्वयंसेवकः समाजकार्ये आनन्दं अनुभवति च कार्यं करोति।
तेन स्पष्टीकृतम् यत् “जीवनस्य सार्थकता, मोक्षस्य अनुभूतिः च अस्मिन् सेवायामेव दृश्यते। सज्जनैः मैत्री, दुष्टानां उपेक्षा, शुभकर्मणि आनन्दः, दुर्जनानां प्रति अपि करुणा एष एव संघस्य जीवनमूल्यः।
हिन्दुत्वं किमस्ति ?
हिन्दुत्वस्य मूलं प्रति सः अवदत् यत् “हिन्दुत्वं सत्यम्, प्रेम, अपनयनं च। ऋषिमुनिभिः अस्मान् उपदिष्टं यत् जीवनं स्वार्थाय न भवति। भारतः जगति ज्येष्ठभ्रातरिव मार्गदर्शनं करोति। अस्मात् एव विश्वकल्याणस्य चिन्तनं जातम्।
तेन चिन्तां व्यक्तां कृतवान् यत् “जगति संप्रति कट्टरता, कलहः, अशान्तिः च प्रवर्धन्ते। गतत्रिशताधिकपञ्चाशद्वर्षेषु उपभोगवादजडवादयोः दृष्ट्या मानवीयजीवनस्य भद्रता क्षीणिता।
तेन महात्मागान्धिनः सप्त सामाजिकपापानि अपि उद्धृतानि यत् श्रमविना कर्म, विवेकविना आनन्दः, चरित्रविना ज्ञानम्, नैतिकताविना व्यापारः, मानवताविना विज्ञानम्, बलिदानविना धर्मः, सिद्धान्तविना राजनीतिश्च । एतेभ्यः एव समाजे असंतुलनं वर्धते” इति तेन उक्तम्।
धर्मस्य मार्गः स्वीकर्तव्यः
सरसंघचालकजी अवदत् यत् “जगति अद्य समन्वयाभावः अस्ति। जगत् स्वदृष्टिकोनं परिवर्तयितुं आवश्यकम्। जगत् धर्ममार्गं स्वीकरोतु। धर्मः केवलं पूजाकर्म नास्ति, न च केवलं कर्मकाण्डः। धर्मः सर्वेषां रिलिजनानामपि उपरि स्थितः। धर्मः अस्मान् संतुलनं शिक्षयति यद् आवयोः जीवितम् आवश्यकम्, समाजस्यापि आवश्यकम्, प्रकृतेः अपि आवश्यकम्। धर्म एव मध्यममार्गः, यः अतिवादं रक्षति। धर्मः मर्यादया संतुलनेन च जीवितम्।
धर्मस्य परिभाषां दत्वा अवदत् यत् “यः संतुलितजीवनं नयति, यत्र विविधता स्वीकृता भवति, सर्वेषां अस्तित्वं सम्मान्यते च—स एव धर्मः। एष एव विश्वधर्मः। हिन्दुसमाजेन संगठितेन जगतः सम्मुखे एषः प्रस्तुतेः करणीयः।
वैश्विकस्थितिः च समाधानम्
तेन उक्तं यत् “शान्तिः, पर्यावरणम्, आर्थिकअसमानता च इत्येषु चर्चाः भवन्ति, उपायाः अपि प्रदर्श्यन्ते, किन्तु समाधानं दूरम्। तेन प्रमाणिकतया चिन्तनं कर्तव्यम्, जीवनं त्यागबलिदानाभ्यां योजनीयम्। संतुलितबुद्धिः, धर्मदृष्टिः च विकासनीयाः।
तेन उक्तं यत् भारतवर्षे सदा स्वहान्यपि उपेक्ष्य संयमः धार्यः। ये अस्मान् हानिं कृतवन्तः, तेभ्यः अपि संकटे साहाय्यं दत्तम्। अहंकारः एव व्यक्तीनां राष्ट्राणां च शत्रुत्वं जनयति, किन्तु भारतः अहंकारात् परे स्थितः।
तेन उक्तम् यत् “संघस्य वाक्येषु समाजस्य विश्वासः अस्ति। ‘संघः यत् वदति, तत् समाजः शृणोति।’ अयं विश्वासः केवलं सेवा-समाजनिष्ठाभ्यां प्राप्तः।
भविष्यस्य दिशा
सरसंघचालकजी अवदत् यत् “संघस्य उद्देश्यं यत् सर्वेषु स्थानवर्गेषु स्तरेषु च संघकार्यं प्राप्नुयात्। समाजे सज्जनशक्तयः आपस्मिन् सम्बद्धाः भवन्तु। ततः समाजः अपि संघवत् चरित्रनिर्माणदेशभक्तिकर्माणि करिष्यति। अतः समाजे कोणे-कोणे शाखा स्थापनीया।
“संघः मन्यते यत् समाजे सद्भावना स्थापनीया। समाजस्य ओपिनियन-मेकर्स् इत्येभ्यः सह निरन्तरं संवादः करणीयः। ते स्वसमाजाय कर्म कुर्वन्तु, हिन्दुसमाजस्य अंगत्वं अनुभवयन्तु, भूगोलस्थितिप्रतिबन्धेषु स्वयमेव समाधानं शोधयन्तु, दुर्बलवर्गेषु अपि कार्यं कुर्वन्तु।
तेन अवदत् यद्बाह्यदेशेभ्यः आक्रान्तभावात् अन्यधर्मविचाराः भारतं प्रविष्टाः। केषुचित् कारणेषु केषाञ्चन जनानाम् अनुमोदनं लब्धम्। ते जनाः अस्माकमेव राष्ट्रे जाताः, किन्तु विदेशविचारधारया दूर्याः जाता। तानि भेदानि निवारणीयानि। अस्माभिः एकः देशः, एकः समाजः, एकं राष्ट्रम् इति भावेन, समानपूर्वजसांस्कृतिकविरासतया सह अग्रे गन्तव्यम्।
आर्थिकप्रगतेः नूतनमार्गः
आर्थिकदृष्टेः तेनोक्तं यत् लघु–लघु प्रयोगाः अभवन् परन्तु अधुना आर्थिकदृष्ट्या राष्ट्रस्तरीये प्रतिमानम् उपस्थापनीयम्। आत्मनिर्भरता–स्वदेशी–पर्यावरणसंतुलनं यत्र दृश्यते, तादृशं विकासप्रतिदर्शः आवश्यकः। एषः विश्वस्यापि आदर्शः भविष्यति।
पञ्चपरिवर्तनानि – स्वगृहात् आरम्भः
तेनोक्तं यत् “प्रतिवेशीदेशैः सह अपि सम्बन्धाः सुदृढीकरणीयाः। नद्यः, पर्वताः, जनाः च समानाः एव, केवलं मानचित्रे रेखाः आङ्किताः। संस्कारेषु मतभेदः नास्ति। तेन अवदत् यत् “जगति परिवर्तनं कर्तुं पूर्वं गृहेभ्यः आरम्भः करणीयः। संघेन पञ्चपरिवर्तनानि उक्तानि—कुटुम्बप्रबोधनम्, सामाजिकसमरसता, पर्यावरणसंरक्षणम्, स्वबोधः, नागरिककर्तव्यपालनम्। तेन उदाहरणं दत्तम् यत् “उत्सवेषु पारम्परिकवस्त्राणि धारयन्तु, स्वभाषायाम् हस्ताक्षरं कुर्वन्तु, स्थानीयउत्पादानां मानपूर्वकं क्रयः करणीयः।
“पूर्वजाः हसन्तः फास्यां गताः, अद्य आवश्यकं यत् वयं अहर्निशं राष्ट्राय जीवेम। संविधाननियमौ सदा पालननीयौ। उकसनेन टायरदाहः, शिलापातः च न कर्तव्यः। उपद्रविणस्ततः लाभं कुर्वन्ति। अतः कदापि अवैधं आचरणं न करणीयम्। अन्ते सरसंघचालकजी अवदत् यत् “संघः न क्रेडिटबुक्के प्रविष्टुम् इच्छति। संघस्य उद्देश्यं यत् भारतः एवमेकं महान् उत्थानं कुर्यात्, यतः तस्य कायापलटः भवेत्, विश्वे सुखशान्तिश्च स्थिरीभवेत्।
---------------
हिन्दुस्थान समाचार