रायगढम् - चक्रधर समारोहस्य चतुर्थ दिवसे ओडिशी, कथकं, पंथीनृत्यं, कव्वाली, सितारवादनम् इत्येभिः अलंकरिष्यते सांस्कृतिकसायम्
रायगढ़म्, 30 अगस्तमासः (हि.स.)।रायगढे सञ्चरति चत्वारिंशः चक्रधरसमारोहः। तस्मिन् चतुर्थदिवसे अद्य ३० अगस्त् दिने ओडिशी, कथक्, नृत्यप्रस्तुति, सितारवादनम्, पन्थीनृत्यम्, कव्वाली च आयोजनं भविष्यति। समारोहेषु रायपुरनगर्या: सुश्री-शिवली देवता ओडिशी-नृत्य
चक्रधर समारोह में आज के प्रस्तुति की झलक


रायगढ़म्, 30 अगस्तमासः (हि.स.)।रायगढे सञ्चरति चत्वारिंशः चक्रधरसमारोहः। तस्मिन् चतुर्थदिवसे अद्य ३० अगस्त् दिने ओडिशी, कथक्, नृत्यप्रस्तुति, सितारवादनम्, पन्थीनृत्यम्, कव्वाली च आयोजनं भविष्यति।

समारोहेषु रायपुरनगर्या: सुश्री-शिवली देवता ओडिशी-नृत्यं प्रदास्यति। लखनौः श्रीमती-श्वेता वर्मा कथक्-नृत्यं करिष्यति। तथा रायपुर्या: सुश्री-इशिका गिरी अपि कथकं नृत्यं करिष्यति। सुश्री-भूमिसुता मिश्रा सुश्री-लिप्सा रानी बिस्वाल च रायपुर्यातः आगत्य ओडिशी-प्रस्तुति करिष्यतः। डॉ.-सुश्री दीप्ति राउत्रे पुरीघाट-कटकातः ओडिशी-नृत्यं प्रदास्यति।

खैरागढ-संगीत-विश्वविद्यालयस्य छात्राः ‘यूनिवर्सिटी-डान्स-प्रोग्राम्’ इति नाम्ना नृत्यं करिष्यन्ति। तत्रैव प्रोफेसर-डॉ.-लवली शर्मा सितारवादनं करिष्यति।

पदमश्री-श्री-राधेश्याम-बारले भिलायीनिवासी पन्थीनृत्यं प्रदास्यति। दिल्लीस्थानः जनाब् अनीस-साबरी कव्वाली-गानं करिष्यति।

हिन्दुस्थान समाचार