चक्रधरसमारोहः ओडिशी कलाकारैश्शिवली देवता पुर्याः जगन्नाथ स्वामिनं प्रति आधारित मनमोहक प्रस्तुतिः दत्ता
रायगढ़म् 31 अगस्तमासः (हि.स.)।छत्तीसगढ़स्य रायगढ़जिल्ले आयोजिते चक्रधर–समारोहे चतुर्थदिने शनिवासरस्य सायं विलम्बे कार्यक्रमस्य शुभारम्भः रायपुरात् आगता ओडिशी–कलाविदुषी शिवली–देवता इत्यनेन आकर्षकया ओडिशी–नृत्यप्रस्तुत्या कृतः। शिवली एकं निपुणां ओडिशी–
शिवली देवता की ओडिशी प्रस्तुति


रायगढ़म् 31 अगस्तमासः (हि.स.)।छत्तीसगढ़स्य रायगढ़जिल्ले आयोजिते चक्रधर–समारोहे चतुर्थदिने शनिवासरस्य सायं विलम्बे कार्यक्रमस्य शुभारम्भः रायपुरात् आगता ओडिशी–कलाविदुषी शिवली–देवता इत्यनेन आकर्षकया ओडिशी–नृत्यप्रस्तुत्या कृतः। शिवली एकं निपुणां ओडिशी–नृत्याङ्गनाम् अस्ति।

ओडिशी–नृत्यस्य उत्पत्तिः उडीशाराज्यस्य मन्दिरेभ्यः जाताऽस्ति। एषः नृत्यः स्वस्य लयबद्धगतिभिः, जटिलपदचालनैः, मन्दिरेषु उत्कीर्णानां मूर्तीनां मुद्राभिः प्रसिद्धः अस्ति। शिवली स्वस्य कोमलाभिः मुद्राभिः, भावपूर्णेन अभिनयेन, तालबद्धया निपुणतया च भारतीयमहाकाव्यानां कालजयीनां कथानां जीवत्वं दर्शयति।

शिवली स्वस्य नृत्यप्रस्तुतिं आध्यात्मिकं अर्पणं मन्यते, या अस्माकं प्राचीनपरम्परां वर्तमानेन संयोजयति। रायपुरात् आगता प्रसिद्धा नर्तकी–कलाविदुषी शिवली–देवता जगन्नाथ–स्वामिनः पुरी–आधारितां मनोहरां प्रस्तुतिं दत्तवती।

सा स्वकला–नैपुण्येन भावभङ्गिमाभिः सह लयबद्धरीत्या मोहकं नृत्यं प्रादर्शयत्। सुश्री–शिवली अपि विविधेषु प्रतिष्ठितेषु मंचेषु तस्याः उत्कृष्टनृत्यप्रस्तुत्यै सम्मानिता

जाता।

---------------

हिन्दुस्थान समाचार