मुख्यमंत्रिणा नीतीश कुमारेण दिशोम गुरु शिबू सोरेनस्य निधने व्यक्तीकृता गहनशोक-संवेदना
पटना, 04 अगस्तमासः (हि.स.)।बिहारराज्यस्य मुख्यमन्त्री नीतिश् कुमार् झारखण्डराज्यस्य पूर्वमुख्यमन्त्रिणः शिबूसोरेणस्य निधनस्य विषये गम्भीरं शोकसन्देशं व्यक्तवान् अस्ति। तेन स्वस्य शोकसन्देशे उक्तं यत् – “शिबूसोरेणः एकः प्रख्यातः राजनेता आसीत्। सः त्र
मुख्यमंत्रिणा नीतीश कुमारेण दिशोम गुरु शिबू सोरेनस्य निधने व्यक्तीकृता गहनशोक-संवेदना


पटना, 04 अगस्तमासः (हि.स.)।बिहारराज्यस्य मुख्यमन्त्री नीतिश् कुमार् झारखण्डराज्यस्य पूर्वमुख्यमन्त्रिणः शिबूसोरेणस्य निधनस्य विषये गम्भीरं शोकसन्देशं व्यक्तवान् अस्ति।

तेन स्वस्य शोकसन्देशे उक्तं यत् – “शिबूसोरेणः एकः प्रख्यातः राजनेता आसीत्। सः त्रिवारं झारखण्डराज्यस्य मुख्यमन्त्री अभवत्। झारखण्डराजनीत्यां तस्य विशेषं योगदानम् आसीत्। तस्य निधनात् केवलं झारखण्डराज्यमेव न, अपि तु सम्पूर्णस्य राष्ट्रस्य राजनीतिकसामाजिकक्षेत्रयोः अपूरणीया क्षतिः जाता अस्ति।”

मुख्यमन्त्रिणा दिवंगतात्मनः चिरशान्तये, तस्य कुटुम्बजनानां प्रशंसकानां च दुःखदायिन्यां एतस्मिन् समये धैर्यधारणशक्तेः प्राप्तये च ईश्वरस्य प्रार्थना कृता।

---------------

हिन्दुस्थान समाचार