Enter your Email Address to subscribe to our newsletters
बाक्सा (असमः), 04 अगस्तमासः (हि.स.)।अस्मिन् दिने असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्त बिस्व सरमा बाक्सा जनपदस्य प्रवासं करिष्यति। मुख्यमन्त्री जनपदे द्वयोः कार्यकर्तृसम्मेलनेषु भागं ग्रहीष्यति। तदुपरि सरकारीकार्यक्रमे अपि सः सम्मिलितः भविष्यति।
उपलब्धसूचनानुसारः मुख्यमन्त्री प्रथमं मुसलपुरपरिषद्विभागे अदालबारीस्थले आयोज्यमाने कार्यकर्तृसम्मेलने भागं ग्रहीष्यति। ततः अनन्तरं मध्याह्ने मथनगुरीपरिषद्विभागे माजरग्रामे आयोज्यमाने द्वितीये कार्यकर्तृसम्मेलने सः सम्मिलितः भविष्यति।कार्यकर्तृसम्मेलनानां समये मुख्यमन्त्रिणा सह राज्यसर्वकारस्य अनेकाः मन्त्रिणः, विधायकाः च तथा पक्षस्य वरिष्ठपदाधिकारीणः अपि उपस्थिताः भविष्यन्ति।
हिन्दुस्थान समाचार