झारखंड विधानसभायाः वर्षाकालीनं सत्रम् अनिश्चितकालाय स्थगितम्
रांची, 4 अगस्तमासः (हि.स.)। झारखंडविधानसभायाः मानसूनसत्रं स्थगितम् दिशोमगुरोः निधनस्य निमित्तेनझारखंडराज्यविधानसभायाः मानसूनसत्रं अनिश्चितकालपर्यन्तं स्थगितं कृतम्। विधानसभाध्यक्षः रवीन्द्रनाथमहतः सोमवासरे एतस्य घोषणां कृतवान्। विधानसभायाः मानसूनसत्
झारखंड विधानसभा की फाइल फोटो


रांची, 4 अगस्तमासः (हि.स.)। झारखंडविधानसभायाः मानसूनसत्रं स्थगितम् दिशोमगुरोः निधनस्य निमित्तेनझारखंडराज्यविधानसभायाः मानसूनसत्रं अनिश्चितकालपर्यन्तं स्थगितं कृतम्। विधानसभाध्यक्षः रवीन्द्रनाथमहतः सोमवासरे एतस्य घोषणां कृतवान्। विधानसभायाः मानसूनसत्रस्य कार्यवाही प्रातः ११.०७ वादने आरब्धा आसीत्। कार्यायाः आरम्भे एव दिशोमगुरोः शिबू सोरेणस्य निधनम् अभवत् इत्यस्मिन् निमित्ते श्रद्धाञ्जलिः समर्पिता। ततः पश्चात् सभाध्यक्षः कार्यवाहिन्याः अनिश्चितकालपर्यन्तं स्थगनं घोषितवान्।सभाध्यक्षः गुरोः निधनं प्रति गाढं शोकम् व्यक्तवान्। सः उक्तवान् यत् – “गुरोः निधनं सर्वेषां राज्यवासिनां कृते अतिदुःखजनकं वर्तते। गुरुः झारखंडराज्यस्य पुरोधाः आसीत्। सः सदा वंचितानां, पीडितानां, आदिवासिनां च पक्षे स्वरं उच्चीकृतवान्। तस्य निधनं केवलं झारखंडस्यैव न, अपि तु सम्पूर्णस्य राष्ट्रस्य कृते अपूरणीयहानिः अस्ति। तस्य निधनात् वयं सर्वे अत्यन्तं दुःखिताः स्मः। गुरोः स्मृतयः, प्रेरणा, च तस्य आन्दोलनं अद्यापि अस्माकं सह एव भविष्यति।गौरवपूर्वक ज्ञापनीयम् यत् दिशोमगुरोः शिबू सोरेणस्य निधनं सोमवासरे प्रातःकाले दिल्ल्याः सरगंगाराम् चिकित्सालये अभवत्। तस्य निधनानन्तरं झारखंडराज्यसर्वकारेण त्रिदिनात्मकं राजकीयशोकः घोषितः।

---------------

हिन्दुस्थान समाचार