Enter your Email Address to subscribe to our newsletters
नाहनम्, 04 अगस्तमासः (हि.स.)।हिमाचलनिर्मातुः डॉ. वाई.एस. परमार इत्यस्य जयन्ती प्रदेशे सम्पूर्णे श्रद्धया साकं सम्मानपूर्वकं सोमवारे आचर्यते स्म। अस्य अनुक्रमे सिरमौरजनपदस्य मुख्यालये नाहननगरे अपि विशेषः कार्यक्रमः आयोजितः यत्र स्थानीयराज्यसदस्यः चाङ्ग्रेस्-दलनेता अजयसोलङ्की इत्यनेन मुख्यातिथिरूपेण सहभागिता कृता।
अजयसोलङ्की नामकः विधायकः माल्-मार्गे स्थितायाः डॉ. परमारस्य प्रतिमायाः समीपे माल्यं समर्प्य श्रद्धासुमनानि अर्पितवान्। तस्मिन् समये बहवः स्थानीया नागरिकाः, काँग्रेस्-पक्षस्य कार्यकर्तारः, गणमान्यव्यक्तयश्च अपि उपस्थिताः आसन्।
माध्यमैः सह संवादे विधायकः सोलङ्की अवदत् यत् डॉ. परमार केवलं हिमाचलप्रदेशस्य निर्माता नासन्, किन्तु सः एकः दूरदर्शी नेता अपि आसीत्, यस्य नेतृत्वेन राज्यस्य विशिष्टा प्रतिष्ठा संभविता। तेन उक्तं यत् अस्माभिः दलीयराजनीतिं परित्यज्य डॉ. परमारेन प्रदर्शितेन मार्गेण गन्तव्यम्।
सः अपि अवदत् यत् डॉ. परमारस्य चिन्तनस्य फलरूपेण अद्य राज्ये सड़कानां विस्तीर्णं जालं निर्मितं, येन विकासाय नवीनं वेगं प्राप्तम्। तेन एषः अपि उक्तं यत् वर्तमानमुख्यमन्त्री सुखविन्दरसिंहसुक्खू अपि डॉ. परमारस्य चिन्तनात् प्रेरणां लभ्य जनकल्याणार्थं विविधाः योजनाः सफलतया कारयन्ति।
---------------
हिन्दुस्थान समाचार