Enter your Email Address to subscribe to our newsletters
-मुख्ययोगी अलीगढ़े ₹958 कोटिमितानां 186 विकास परियोजनानां कृतौ लोकार्पणं शिलान्यासश्च
अलीगढ़म्, 05 अगस्तमासः (हि.स.)।एक जनपद एक उत्पाद योजना राष्ट्रे आदर्शरूपेण प्रसिद्धा अस्ति। मुख्यमंत्री योगी आदित्यनाथः उवाच — एक जनपद एक उत्पाद (ODOP) योजना अद्य सम्पूर्णभारते एकं आदर्शमूलकम् प्रारूपं जातम्।स्वदेशी वस्तूनाम् उपयोगः राष्ट्रस्य आवश्यकतमः कर्तव्यः अस्ति। यदि अस्माकं धनं अस्माकं कारीगरेभ्यः हस्तशिल्पिभ्यश्च गमिष्यति, तर्हि सः विकासस्य समृद्धेश्च आधारः भविष्यति। एषः उपायः प्रति-व्यक्ति-आयस्य वृद्ध्यर्थं निर्णायकं योगदानं दास्यति।देशीवस्तूनां उपयोगः राष्ट्रसुरक्षायै आवश्यकःयदि एषः धनः विदेशीयहस्ते पतिष्यति, तर्हि सः आतंकवादाय, धर्मान्तरणाय, भारतविरोधाय च उपयोगी भविष्यति।योगी महोदयः समागतजनान् अपीलं कृत्वा उवाच — सर्वे गृहेषु आगच्छन्ति उत्सवेषु स्वदेशी उत्पादान् एव उपहाररूपेण ददातु। एषः स्वदेशीप्रेमस्य सरलः किन्तु प्रभावकारी मार्गः अस्ति।अलीगढे ९५८ कोटि रूप्यकाणां परियोजनानां लोकार्पणम्मुख्यमंत्रिणा अलीगढे नुमायश्-मैदाने आयोजिता भव्यायां समारोहे ९५८ कोटि रूप्यकाणां १८६ परियोजनानां लोकार्पणं शिलान्यासं च कृतम्।तत्र मुख्यतया पेयजलपुनर्गठनयोजना,विधिविज्ञानप्रयोगशाला,अतरौली-रेलमार्गस्य विस्तार-सुन्दरीकरणम्,डिग्रीमहाविद्यालयः,९०० कि.ली. जलाशयः — इत्यादीनां उद्घाटनं सम्पन्नम्।एषाः सर्वाः योजनाः अलीगढस्य नूतनं रूपं निर्मास्यन्ति।कल्याण सिंहस्य योगदानम् स्मरणीयम्मुख्यमंत्रिणा उक्तं — पूर्वमुख्यमंत्रीः कल्याण सिंहः अलीगढं राष्ट्रे प्रसिद्धं कृतवान्। तस्य स्वप्नानुसारं तालायंत्रण-उद्योगं (Lock Industry) ODOP योजनया नवीनैः स्तरैः नीयते।राजा महेन्द्र प्रतापसिंहविश्वविद्यालयः अलीगढं उच्चशिक्षायाः केन्द्रं भविष्यति, स्वातन्त्र्यसंघर्षस्य यद् स्मरणं चिरस्थायिनं करिष्यति।ब्रह्मोस-क्षेपणास्त्रस्य निर्माणं अलीगढे एवसन् २०१८ आरब्धः डिफेन्स कॉरिडोर अलीगढे ब्रह्मोस-इत्यस्य विश्वविख्यातस्य क्षेपणास्त्रस्य निर्माणं करोति।एषः अस्त्रः भारतस्य शत्रूनां प्रत्युत्तरं दातुं पूर्णतः समर्थः अस्ति।अलीगढं ड्रोन-हार्डवेयर-उद्योगेषु अपि आत्मनिर्भरता प्राप्तं कृतम्।स्वच्छतायाः राष्ट्रधर्मत्वम्योगी महोदयः जनान् आह्वयन् उक्तवान् — स्वच्छता न केवलं सामाजिकः धर्मः, अपि तु राष्ट्रधर्मः अपि अस्ति।सन् २०१७ तः पूर्वं अलीगढः दंगैः, अराजक्येन च पीडितः आसीत्।अद्य च सुदृढ-शासनस्य प्रभावेन निवेशः, विकासः च सम्भावितः जातः।पुलिसनियुक्तिः – मेरिटाधारितः नूतनप्रणाली६०,२४४ पुलिसकर्मणां मध्ये १३४४ युवकाः अलीगढतः चयनिताः।मुख्यमंत्रिणा घोषितं — आगामिषु ३०,००० नवीनभर्त्यः उत्तरप्रदेशपुलिसे भविष्यन्ति।पूर्वं सरकारीनियुक्तयः केवलं किञ्चन परिवारस्य अधिकाराः आसन्, किन्तु अद्य मेरिट् आधारितः चयनं भवति।स्वदेशी उपहाराः रक्षाबन्धन-जन्माष्टमी निमित्तम्मुख्यमंत्रिणा अपीलः कृतः — सर्वे जनाः रक्षाबन्धन-जन्माष्टमी-उत्सवयोः स्वकीयैः बान्धवैः सह स्वदेशीवस्तूनां आदानप्रदानं कुर्वन्तु।महिलाभ्यः ८–१० अगस्तपर्यन्तं निःशुल्क-बस-यात्रा-सुविधा अपि प्रदत्तव्या। समारोहस्य प्रमुख उपस्थितयःबेसिक् शिक्षाराज्यमन्त्री संदीपसिंहः, सांसदः सतीश गौतमः, जिलाध्यक्षः विजयसिंहः, महापौरः प्रशान्तसिंहलः, अनेकविधाः विधायकाः च तत्र उपविष्टाः।
हिन्दुस्थान समाचार