उत्तरकाशीजनपदस्य धरालीग्रामे मेघविदीर्णम्, महती विनाशवस्था, उद्धारकार्यम् आरब्धम्
उत्तरकाशी, 5 अगस्तमासः (हि.स.)। उत्तरकाशीजनपदे हर्षिलक्षेत्रस्य धरालीग्रामे मङ्गलवासरे घटिते मेघफटनानन्तरं खीरगङ्गायां सहसा प्रवृत्ता विनाशकारीबाढा महतीं विध्वंसवस्थां जनयति स्म। तस्मिन्नेव प्रदेशे स्थितानि विंशतिः अधिकानि आतिथ्यगृहाणि गृहनिवासाश्च व
उत्तरकाशी बादल फटने से धराली में आई विनाशकारी बाढ़, मची चीख-पुकार ।।


उत्तरकाशी, 5 अगस्तमासः (हि.स.)। उत्तरकाशीजनपदे हर्षिलक्षेत्रस्य धरालीग्रामे मङ्गलवासरे घटिते मेघफटनानन्तरं खीरगङ्गायां सहसा प्रवृत्ता विनाशकारीबाढा महतीं विध्वंसवस्थां जनयति स्म। तस्मिन्नेव प्रदेशे स्थितानि विंशतिः अधिकानि आतिथ्यगृहाणि गृहनिवासाश्च विनष्टानि सन्ति।

मुख्यमन्त्रिणा पुष्करसिंहेन धामिना त्वरितरूपेण राहतकार्यं उद्धारकार्यं च आरम्भनीयम् इत्यादेशः प्रदत्तः।सेना, आपत्कालीनदलाः – SDRF, NDRF, जनपदप्रशासनं च सहिताः अन्यसंबद्धदलगणाः घटनास्थले सम्यगुपायैः राहतकार्ये यतन्ते। जनपदस्य वरिष्ठाधिकारिणः अपि प्रभावितग्रामं प्रति शीघ्रमेव प्रस्थिताः।

सूचनानुसारं जनपदमुख्यालयात् सप्ततिः किलोमीटरदूरे स्थितं गङ्गोत्रीधामात् विंशतिः किलोमीटरपूर्वं हर्षिलप्रदेशे धरालीग्रामे मेघफटनानन्तरं खीरगङ्गायां सहसा विनाशकारीबाढा प्रवृत्ता। मुखवाग्रामवासिनः गङ्गातीरवर्तिनः विनाशमागच्छन्तं दृष्ट्वा शब्देन अन्यान् सावधानान् अकुर्वन्।सूच्यते यत् बाढया प्रदेशे विंशतिपञ्चविंशतिसंख्यकानि आतिथ्यगृहाणि होमस्टेगृहाणि च विनष्टानि। स्थानीयजनानां सूचनानुसारं दशद्वादशजनाः मलबेन आवृताः स्युः।

स्थानीयः राजेशपंवार इत्याख्यातः व्यक्तिः अवदत् यत् खीरगङ्गायाः जलग्रहणप्रदेशे उपरि कुतश्चित् मेघः फटितः, तस्मादेव एषा विनाशकारीबाढा अभवत्। जलाप्लावे जनानां मध्ये भीतिपरिप्लुतः वातावरणं जातम्। मुख्यमन्त्रिणा पुष्करसिंहेन धामिना घटनायाः सूचना प्राप्य खेदः व्यक्तः कृतः च, ईश्वरं प्रति सर्वे जनाः सुरक्षिताः स्युः इत्यप्रार्थयत्।

मुख्यमन्त्रिणा आदेशः दत्तः यत् राहतकार्यं उद्धारकार्यं च युद्धस्तरे सम्पाद्यताम्। सेना, SDRF, NDRF, जनपदप्रशासनं च सहिताः अन्यटीमाः घटनास्थले सक्रीयतया तत्र राहतायै कार्यं कुर्वन्ति। मुख्यमन्त्री वरिष्ठाधिकारिसङ्गेन निरन्तरसम्पर्के स्थित्वा घटनायाः अद्यतनं प्राप्नोति। सूचनां लब्ध्वा जिलाधिकारी प्रशान्तआर्यः, आरक्षकअधीक्षिका सरिताडोबाल च घटनास्थलं प्रति प्रस्थितौ। विस्तृतविवरणस्य प्रतीक्षा क्रियते।

सेनायाः वक्तव्येन निगदितम् – हर्षिलप्रदेशे खीरगाढप्रदेशस्य समीपे धरालीग्रामे घोरं भूस्खलनं जातम्, यतः सहसा मलबं जलं च जनवसतिप्रदेशं प्रति गतम्। IBEX ब्रिगेडस्य सैनिकाः स्थितेः मूल्याङ्कनं कर्तुं, उद्धारकार्यं च प्रारब्धुं घटनास्थलं प्राप्ताः। हानेः मूल्याङ्कनं क्रियते। उद्धारकार्यम् आरभ्य पश्चात् सम्यक् विवरणं प्रदास्यते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता