मुख्यमंत्री भजनलाल शर्मा विद्युत उपकेन्द्राय अददात् भूमि आवंटनस्य स्वीकृतिम्
जयपुरम्, 6 अगस्तमासः (हि.स.)।मुख्यमन्त्रिणः भजनलाल शर्मा इत्यस्य नेतृत्वे प्रदेशे विद्युत्संरचनायाः सुदृढीकरणाय राज्यसर्वकारः निरन्तरं कर्म आचरति। निर्बाधविद्युत्संवहनाय सरकारेण प्राथमिकतया निर्णयाः स्वीक्रियन्ते। एतस्मिन् प्रसंगे मुख्यमन्त्रिणा जैस
सीएम भजनलाल शर्मा, CM Bhajan Lal Sharma


जयपुरम्, 6 अगस्तमासः (हि.स.)।मुख्यमन्त्रिणः भजनलाल शर्मा इत्यस्य नेतृत्वे प्रदेशे विद्युत्संरचनायाः सुदृढीकरणाय राज्यसर्वकारः निरन्तरं कर्म आचरति। निर्बाधविद्युत्संवहनाय सरकारेण प्राथमिकतया निर्णयाः स्वीक्रियन्ते।

एतस्मिन् प्रसंगे मुख्यमन्त्रिणा जैसलमेरजनपदस्य भणियाणा-मण्डलान्तर्गतं फूसासर-नाम्नि स्थले ७६५ के.वि. विद्युत्स्थानकस्य स्थापनाय भूमेः आवण्टनाय अनुमतिः दत्ता। एतत् विद्युत्स्थानकं राजस्थानराज्यविद्युत्संचारनिगमसीमितेति संस्थया ८० हेक्टेयर-परिमिते भूमिप्रदेशे स्थाप्यते।

एषः मुख्यमन्त्रिणः निर्णयः पश्चिमराजस्थानं समग्रं प्रदेशं च आविष्य ऊर्जा-क्षेत्रे क्रियमाणेषु उल्लेखनीयेषु कार्येषु तस्य दृढसंकल्पं प्रकाशयति। अस्य विद्युत्स्थानकस्य स्थापनया प्रदेशे विद्युत्संवहनस्य गुणवत्ता सम्यग्भविष्यति, सामान्यजनानां च निर्बाधविद्युत्सेवा सुनिश्चितुं शक्यते।

-----

---------------

हिन्दुस्थान समाचार