पीडिताभ्यः स्त्रीभ्यः सहायकवस्तुनि दतानि योगीसरकारेण, वितरितानि च 41.75 कोटिरूप्यकाणि।
‘रानी लक्ष्मीबाई सम्मानकोषात्’ वितरिता धनराशिः। लखनऊ, 06 अगस्तमासः (हि.स.)। उत्तरप्रदेशे योगीसर्वकार महिला-सुरक्षा-न्याय-सशक्तीकरणक्षेत्रेषु नवां इतिहासं लिखति। राज्यसर्वकारया संचालितः ‘राणी लक्ष्मीबाई महिला एवं बालसम्मानकोषः’ इत्यस्य अन्तर्गतं प्रद
मुख्यमंत्री योगी आदित्यनाथ


‘रानी लक्ष्मीबाई सम्मानकोषात्’ वितरिता धनराशिः।

लखनऊ, 06 अगस्तमासः (हि.स.)। उत्तरप्रदेशे योगीसर्वकार महिला-सुरक्षा-न्याय-सशक्तीकरणक्षेत्रेषु नवां इतिहासं लिखति। राज्यसर्वकारया संचालितः ‘राणी लक्ष्मीबाई महिला एवं बालसम्मानकोषः’ इत्यस्य अन्तर्गतं प्रदेशे जघन्य-अपराधैः पीडितानां स्त्रीणां प्रति 1 लक्षात् 10 लक्षपर्यन्तं क्षतिपूर्तिरूपेण धनराशिः दत्ता। अस्य योजनाया अन्तर्गततः अद्यावत् राज्यस्य 1250 पीडितास्त्रीभ्यः च बालिकाभ्यः च कुलतः 41.75 कोटिरूप्यकाणां क्षतिपूर्तिरूपा धनराशिः तासां वा तासां बान्धवानां च वित्तकोषेषु प्रत्यक्षलाभहस्तान्तरणद्वारा (डीबीटी) अंतरिता अस्ति।

2024-25 तमवर्षे वितरिता 100 कोटिरूप्यकम्।

पूर्वं च, वित्तवर्षे 2024-25 मध्ये अपि योगीसर्वकारा 2942 पीडिताभ्यः 100 कोटिरूप्यकाणां सहाय्यराशिं प्रत्यक्षं तेषां वित्तकोषेषु प्रेषिता। एषा सङ्ख्या सर्वकारायाः प्रतिबद्धतां च गम्भीरतां च दर्शयति। अस्य योजनाया प्रक्रिया पारदर्शिनी सरलाश्च कृत्वा त्वरितरूपेण कार्यसिद्धये, जनपदधीशस्य अध्यक्षतायां गठिता जनपद-संचालन-समितिः प्रत्येकं प्रकरणं समीक्षते। समितेः स्वीकृतेः अनन्तरं सर्वकारया मुख्यालयस्तरेण प्रत्यक्षं निध्यन्तरणं सुनिश्चितं क्रियते।योगीसरकारायाः दृढनिश्चयः च संवेदनशीलदृष्टिः।

राज्य-महिला-आयोगस्य सदस्या अञ्जु प्रजापति नाम्नी उक्तवती यत्— उत्तरप्रदेशसरकारा स्त्रीणां बालिकानां च विषये अपराधान् न केवलं गम्भीरतया स्वीकुर्वन्ति, अपि तु पीडिताभ्यः शीघ्रं न्यायं च आर्थिकसाहाय्यं च ददाति। ‘रानी लक्ष्मीबाई सम्मानकोषः’ एषः तस्याः शक्ततमेषु दृष्टान्तेषु एकः। एषः कोषः केवलं न्यायस्य प्रतीक्षां कुर्वतीभ्यः स्त्रीभ्यः आर्थिकसाहाय्यं न ददाति, अपि तु ताः नवजीवनं जीवितुं साहसं, आत्मविश्वासं च, गरिमां च अपि यच्छति।

हिन्दुस्थान समाचार / अंशु गुप्ता