शांतिकुंजतः उत्तरकाशी आपदा रक्षणाय दलं प्रस्थितम्
हरिद्वारम्, 6 अगस्तमासः (हि.स.)। उत्तराखण्डराज्यस्य उत्तरकाशीजनपदस्य धरालीक्षेत्रे ५ अगस्त २०२५ दिनाङ्के घटिते घोरबदलबिदारणदुर्घटनायामनेकानि कुटुम्बानि प्रभावितानि। अस्मिन दुःखदसन्दर्भे संवेदनशीलता-सह तत्परता च प्रदर्शयन्ती संस्था ''शान्तिकुञ्ज'
पीडि़तों के लिए राहत सामग्री तैयार करते हुए


हरिद्वारम्, 6 अगस्तमासः (हि.स.)।

उत्तराखण्डराज्यस्य उत्तरकाशीजनपदस्य धरालीक्षेत्रे ५ अगस्त २०२५ दिनाङ्के घटिते घोरबदलबिदारणदुर्घटनायामनेकानि कुटुम्बानि प्रभावितानि।

अस्मिन दुःखदसन्दर्भे संवेदनशीलता-सह तत्परता च प्रदर्शयन्ती संस्था 'शान्तिकुञ्ज'-स्य अधिष्ठात्री शैलदीदी अध्यक्षत्वे आपदाप्रबन्धनस्य आपात्कालीन बैठक सम्पन्ना। त्वरितरूपेण उत्तरकाशिस्थानं प्रति विशेषः आपदारक्षणदलीयः सर्वेक्षणदलः प्रेषयितुं निर्णीतम्। शैलदीद्याः मार्गदर्शनेन आशीर्वादं च गृह्णीय, आपदाप्रशिक्षितः सदस्यः इन्द्रजीतसिंहः नेतृत्त्वं वहन् दलः उत्तरकाशिं प्रति प्रस्थितः।

शैलदीद्या दुर्घटनां प्रति गम्भीरं दुःखं व्यक्त्वा उक्तं यत् एषा नैसर्गिकी आपदा सम्पूर्णं गायत्रीपरिवारं चिन्ताग्रस्तं कृतवती।

सा अवदत् — वयं मातरं गायत्रीं प्रति प्रार्थयामः यत् दिवंगतानां आत्मनां शान्तिः स्यात्, शोकार्तकुटुम्बेभ्यः च धैर्यं दत्तं भवेत्। एतस्मिन् संकटकाले शान्तिकुञ्ज संस्थानं आपदाग्रस्तकुटुम्बानां पक्षे दृढतया स्थितं भविष्यति।

यूरोपप्रदेशे प्रवासे स्थितः देवसंस्कृतिविश्वविद्यालयस्य प्रतिकुलपति डॉ. चिन्मयपण्ड्यायाः सन्देशः प्रेषितः, यत्र तेन दुःखं प्रकट्य पीडितजनानां सहयोगाय आपदाप्रबन्धनदलाय मार्गदर्शनं दत्तम्।

व्यवस्थापकः योगेन्द्रगिरिः उक्तवान् यत् राहतदलः स्थानीयप्रशासनसहितं परिजनैः सह च निरन्तरं सम्पर्के अस्ति। पीडितानां आवश्यकतानां सम्यक् मूल्याङ्कनं कृत्वा समुचितं साहाय्यं प्रदास्यते।

योजनां अनुसारं उत्तरकाशिक्षेत्रे त्वरितरूपेण एकं अस्थायीभोजनालयं स्थाप्यते।

तत्र आवश्यकता-अनुसारं वस्त्राणि, पात्राणि, शुष्कधान्यं, अल्पाहारं च यथायोग्यं वितर्यन्ते। शान्तिकुञ्जस्य आपदाप्रबन्धनदलम् पूर्वमेव केदारनाथक्षेत्रे, पिथौरागढे, गुजरातभूकम्पे, नेपालभूकम्पे च सक्रियतया सेवां समर्पितवती।

इदानीं पुनः शान्तिकुञ्जसंस्थया सेवा–संवेदना–समर्पणस्य परम्परा अनुपाल्य उत्तरकाश्याः पीडितजनानां कृते सहानुभूतिपूर्णं साहाय्यं समर्पितम्।

हिन्दुस्थान समाचार