पश्चिम बंगाल भाजपा 42 जिलाध्यक्षाणां नियुक्ति प्रक्रियाम् अपूरयत्
कोलकाता, 07 अगस्तमासः (हि. स.)।पश्चिमबङ्गराज्ये भारतीयजनतापक्षेन बुधवासरे रात्रौ राज्यस्य सर्वेषां द्विचत्वारिंशत् सांगठनिकजनपदानां अध्यक्षानां नियुक्तिप्रक्रिया समाप्ता। पक्षेन पूर्वमेव अष्टत्रिंशत् जनपदाध्यक्षानां नामानि घोषितानि आसन्, किन्तु दार्
शमिक भट्टाचार्य


कोलकाता, 07 अगस्तमासः (हि. स.)।पश्चिमबङ्गराज्ये भारतीयजनतापक्षेन बुधवासरे रात्रौ राज्यस्य सर्वेषां द्विचत्वारिंशत् सांगठनिकजनपदानां अध्यक्षानां नियुक्तिप्रक्रिया समाप्ता।

पक्षेन पूर्वमेव अष्टत्रिंशत् जनपदाध्यक्षानां नामानि घोषितानि आसन्, किन्तु दार्जिलिङ्, बैरकपुरम्, बनगांव, घाटाल इत्येषां चतुर्णां जनपदानां अध्यक्षानां नामानि तावत्कालं विलम्बितानि आसन्।

राज्यभाजपाध्यक्षः राज्यसभायाः सांसदश्च शमिकभट्टाचार्येन एतेषां चतुर्णां जनपदानां अध्यक्षानां नामानि घोषिता।घोषणायाः अनुसारं —दार्जिलिङ् इत्यस्मिन् संजीवतामाङ्, बैरकपुरे तपसघोषः, बनगांव इत्यत्र विकासघोषः, तथा घाटालक्षेत्रे तन्मयदास इत्येषु अध्यक्षरूपेण नियुक्ताः।

एतेषां मध्ये केवलं तन्मयदासः एव पुनः एषा उत्तरदायित्वं प्राप्तवान्, अन्ये त्रयः नूतनाः अध्यक्षाः सन्ति।

पक्षे स्थितानि सूत्राणि प्राहुः यत् दार्जिलिङ् जनपदस्य अध्यक्षनिर्वाचने प्रदेशनेतृत्वेन स्थानीयसांसदः राजूबिस्ता इत्यस्य अनुशंसां स्वीकृता।

सूत्राणि अपि अवदन् — पर्वतीयप्रदेशेषु राजनैतिकस्थितयः मैदानीप्रदेशेभ्यः भिन्नाः, अतः स्थानीयसांसदस्य मतम् अधिकं महत्त्वं प्राप्तम्।

एवमेव बनगांव इत्यत्र निर्णयग्रहणे मतुआसमुदायस्य अपि विशेषं प्रभावं दृष्टम्। अत्र स्थानीयसांसदः, केन्द्रराज्यमन्त्री च शान्तनुठाकुरस्य अनुशंसा निर्णायकत्वेन स्वीक्रिता।

बैरकपुरे अध्यक्षनिर्वाचनं स्थानीयवरिष्ठनेतॄणां सर्वसम्मत्याः आधारपरम् आसीत्।घाटालक्षेत्रे तु तन्मयदासः स्वस्य सततं सांगठनिककार्यनिष्ठायाः कारणेन पुनः अध्यक्षपदेन नियुक्तः।

हिन्दुस्थान समाचार