छत्तीसगढम् : जून 2026 तः पिधास्यते कुम्हारी टोल प्लाजा
रायपुरम् 7 अगस्तमासः (हि.स.)।छत्तीसगढराज्यस्य राजधानीरायपुरस्य लोकसभाक्षेत्रे सांसदः भारतीयजनतापक्षस्य वरिष्ठनेता च बृजमोहन अग्रवाल इत्यस्य निरन्तरं प्रयासानां महान् परिणामः समानेतः अस्ति। केन्द्रीयसर्वकारेण कुम्हारी टोल् प्लाज़ा नामकं शुल्कद्वारं जू
सांसद बृजमाेहन अग्रवाल केंद्रीय मंत्री  नितिन गडकरी  से चर्चा करते


केंद्रीय मंत्री  नितिन गडकरी  स्वीकृति पत्र सांसद बृजमाेहन काे साैंपते


रायपुरम् 7 अगस्तमासः (हि.स.)।छत्तीसगढराज्यस्य राजधानीरायपुरस्य लोकसभाक्षेत्रे सांसदः भारतीयजनतापक्षस्य वरिष्ठनेता च बृजमोहन अग्रवाल इत्यस्य निरन्तरं प्रयासानां महान् परिणामः समानेतः अस्ति। केन्द्रीयसर्वकारेण कुम्हारी टोल् प्लाज़ा नामकं शुल्कद्वारं जून् 2026 तः पूर्णतः बन्दं कर्तुं स्वीकृतिः प्रदत्ता। अस्य विषये केन्द्रीयसड़कपरिवहनमार्गमन्त्रिणा नितिनगडकरी-महोदयेन स्वहस्ताक्षरितं पत्रं प्रेष्य अग्रवालं सूचितम्। अग्रवाल-महोदयः अस्य महत्त्वपूर्णनिर्णयस्य निमित्तं प्रधानमन्त्रिणं नरेन्द्रमोदिनं तथा केन्द्रीयमन्त्रीं नितिनगडकरीं च प्रति कृतज्ञतां व्यक्त्वा उक्तवान् यत् एषः निर्णयः छत्तीसगढ़वासिनां कृते महानां राहतिं समुत्पादयति। एतेन जनानां समयः, इन्धनं च वित्तं च त्रयमपि रक्षितं भविष्यति।

जून् 2026 पर्यन्तं पूर्णं भविष्यति आरंग्-रायपुर्-दुर्ग् बाईपास्

सांसदेन बृजमोहन अग्रवाल-महदयेना बुधवासरे सायंकाले प्रकाशिते विज्ञप्त्यां सूचितं यत् भारतमालायोजनान्तर्गतं 92 किलोमीटरदीर्घस्य आरंग्-रायपुर्-दुर्ग् बाईपास्-मार्गस्य निर्माणकार्यं तीव्रगत्या प्रवर्तते, यत् जून् 2026 पर्यन्तं पूर्णं भविष्यति। तस्मिन् पूर्णे कृते कुम्हारी टोल् प्लाज़ायाः उपयोगिता समाप्ता भविष्यति, ततः तत् शुल्कद्वारं बन्दं भविष्यति। एषः नवः षड्लेनः (6-lane) प्रवेश-नियन्त्रितः राजमार्गः दुर्ग्-रायपुर्-आरंग् नगराणि संयोजयिष्यति, येन केवलेन गमनागमनं सुखमयं भविष्यति, अपि तु नगराणां मध्ये यातायातस्य भारः अपि न्यूनीकृतः भविष्यति।

फास्टैग् उपयोक्तॄणां कृते वार्षिक-पास् योजना

केन्द्रीयसर्वकारेण 15 अगस्त् 2025 तः फास्टैग् उपयोगकर्तॄणां कृते वार्षिक-पास् योजनायाः प्रारम्भः करणीयः इति निर्णयः कृतः। अस्याः योजनायाः अन्तर्गतं ₹3,000 रूप्यकाणां मूल्ये 200 यात्राः (वा एकवर्षपर्यन्तं) सम्पादयितुं शक्यं भविष्यति। अस्य योजना द्वारा निजीवाहनस्वामिनः प्रति-यात्रां केवलं ₹15 खर्चं कुर्वन्ति। एषा योजना कार्, जिप्, वैन् इत्यादीनि अ-व्यावसायिक-वाहनानि प्रति लागू भविष्यति।

देशस्य नवमं निर्बाध-शुल्कद्वारं भविष्यति कुम्हारी

देशे फास्टैग् आधारित-प्रणालीद्वारा अनवरतः शुल्कसंग्रहणप्रणाली क्रियायाम् आनियता अस्ति। राष्ट्रे अष्टौ शुल्कद्वाराणि पूर्वमेव अस्य प्रणालीना सह योजितानि, इदानीं कुम्हारी नाम शुल्कद्वारं नवमं टोल् प्लाज़ा रूपेण स्थितिं प्राप्स्यति, यत्र मल्टि-लेन् फ्री-फ्लो प्रणाली स्थापिता भविष्यति।

प्रधानमंत्रिणो नरेन्द्रमोदिनः दृष्टेः साक्षात्सिद्धिः

अग्रवाल-महोदयः उक्तवान् यत् एषा योजना प्रधानमन्त्रिणः नरेन्द्रमोदिनः दूरदर्शिनः दृष्टेः साक्षात्सिद्धिः अस्ति। अस्य योजनया सामान्यजनाः प्रत्यक्षं लाभं प्राप्स्यन्ति, च सड़केषु जाम्-स्थिति अपि न्यूनता प्राप्स्यति।

हिन्दुस्थान समाचार