काशीविश्वविद्यालयः भगिन्यःनिर्मितवत्यो वीर सैनिकेभ्य रक्षासूत्रं, रक्षाबंधने सीमायां प्रेष्यन्ते प्रेम्णः संदेशाः
– ग्रामीण महिलानां देशभक्त्या चरणं सारितम्, वीरसैनिकानां मणिबंधः न भविष्यति रिक्तः वाराणसी, 07 अगस्तमासः (हि.स.) काशीहिन्दुविश्वविद्यालयस्य सामाजिकविज्ञानसंकायान्तर्गतं ग्रामविकासकेन्द्रं यः सिलायिकाशिक्षणकक्षः अस्ति, तत्र प्रशिक्षणं प्राप्नुवन्त्
वीर सैनिकों के लिए राखी तैयार करने वाली महिलाए


– ग्रामीण महिलानां देशभक्त्या चरणं सारितम्, वीरसैनिकानां मणिबंधः न भविष्यति रिक्तः

वाराणसी, 07 अगस्तमासः (हि.स.) काशीहिन्दुविश्वविद्यालयस्य सामाजिकविज्ञानसंकायान्तर्गतं ग्रामविकासकेन्द्रं यः सिलायिकाशिक्षणकक्षः अस्ति, तत्र प्रशिक्षणं प्राप्नुवन्त्यः ग्रामिण्यः महिलाः युवत्यश्च केवलं स्वावलम्बिन्यः न भूत्वा राष्ट्रसेवायाः अपि आदर्शं स्थापयन्ति। अस्मिन् वर्षे रक्षाबन्धनपर्वणि एता भगिन्यः सीमायां नियुक्तानां वीरसैनिकभ्रातॄणां कृते शतशः सुन्दरसुन्दररक्षासूत्राणि सज्जीकृतवत्यः। एतानि रक्षासूत्राणि तेषां सैनिकानां समर्पयिष्यन्ते ये स्वगृहपरिवारं विहाय राष्ट्ररक्षणाय सेवां कुर्वन्ति। भ्रातृभगिन्योः सम्बन्धस्य अमूल्यं उपहाररूपं कार्यम्

ग्रामविकासकेन्द्रस्य समन्वायकः प्रो॰ आलोककुमारपाण्डेय महोदयः अवदत् यत् रक्षाबन्धनं भ्रातृभगिन्योः स्नेहस्य रक्षायाश्च प्रतीकस्वरूपं पर्व भवति। किन्तु सीमायां तिष्ठन्तः अनेकाः सैनिकभ्रातरः अस्मिन् पर्वणि स्वगृहं गन्तुं न शक्नुवन्ति। तेषां कलाई रिक्ता न भवेत् इति हेतोः केन्द्रस्य महिलाभिः रक्षासूत्राणि निर्मितानि। सः उक्तवान् यत् प्रतिवर्षवत् अस्मिन्नेव वर्षे अपि केन्द्रस्य महिलाः पूर्णेन उत्साहेन अस्मिन अभियानं भागं गृह्णन्ति स्म। एते महिलाः प्रमुखपर्वेषु आयोजनेषु च सन्नद्धतया भागं गृह्णन्ति।

— स्वावलम्बनस्य दिशायां अग्रसरता

केन्द्रस्य प्रशिक्षणिका आरतीविश्वकर्मा इत्यस्या नेतृत्वे महिलाभ्यः सिलायिकां कढ़ाईं बुननकौशलं च शिक्ष्यते येन ताः आत्मनिर्भराः भवितुं शक्नुवन्ति। सा उक्तवती यत् अद्यावधि सहस्रशः ग्रामिण्यः महिलाः प्रशिक्षिताः, यासां केचन महिलाः स्वकीयं प्रशिक्षणकेन्द्रं सिलायिकाकेन्द्रं च सञ्चालयन्ति, अन्याभ्यः अपि महिलाभ्यः आजीविकामवसरं ददाति च। एवं समन्वितग्रामविकासकेन्द्रस्य परियोजनाधिकारी डॉ. भूपेन्द्रप्रतापसिंह महोदयः उक्तवान् यत् अत्रात प्रशिक्षणं प्राप्य महिलाः स्वस्वकेन्द्राणि आरभ्य सञ्चालयन्ति, अन्यानपि शिक्षयन्ति। अत्र केवलं शिक्षणं न प्रदत्तं भवति, कार्योपि महिलाभ्यः दीयते। अस्याः केन्द्रात् सहस्रशः ग्राम्याः महिलाः प्रशिक्षणं प्राप्य विविधानि सिलायिकाकेन्द्राणि, शिक्षाकेन्द्राणि च स्थाप्य आजीविकां लभन्ते। वीरसैनिकानां कृते याः महिलाः रक्षासूत्राणि निर्मितवत्यः

अस्मिन वर्षे रक्षासूत्रनिर्माणे अनीता कुमारी, महिमा मौर्या, पिंकी पाण्डेय, नीलू कुमारी, दिव्या शुक्ला, निधि, ज्योति पटेल, स्वाति पटेल, रोमा सिंह, अनुपम देवी, सौम्या भारद्वाज, अंशु पटेल, यंशी सिंह, सुनीता भारती, अनुराधा कुमारी इत्यादयः महिलाः अत्यन्तं महत्वपूर्णं योगदानं दत्तवत्यः।

---------------

हिन्दुस्थान समाचार