इबहासचिकित्सालयस्य निरीक्षणं कृत्वा मुख्यमंत्री शीघ्रं सर्वा सुविधाः दातुं विश्वासः
नवदिल्ली, 10 सितंबरमासः (हि.स.)। दिल्लीराज्यस्य मुख्यमंत्री रेखा गुप्ता बुधवासरे मानवव्यवहार-सम्बद्धविज्ञान संस्थानं (इहबास) निरीक्षितवन्ती। तया अत्र उपचारार्थ आगतानां रोगिणां सह संवादो अपि कृतः। मुख्यमंत्री पत्रकारैः सह संवादे उक्तवन्ती यत् अस्मिन व
दिलशाद गार्डन में स्थित इहबास अस्पताल के निरीक्षण के दौरान बुधवार को मरीजों से बात करती मुख्यमंत्री रेखा गुप्ता


नवदिल्ली, 10 सितंबरमासः (हि.स.)। दिल्लीराज्यस्य मुख्यमंत्री रेखा गुप्ता बुधवासरे मानवव्यवहार-सम्बद्धविज्ञान संस्थानं (इहबास) निरीक्षितवन्ती। तया अत्र उपचारार्थ आगतानां रोगिणां सह संवादो अपि कृतः। मुख्यमंत्री पत्रकारैः सह संवादे उक्तवन्ती यत् अस्मिन वित्तीयसर्ववर्षे इहबास-रुग्णालयाय अत्याधुनिक-यन्त्राणि, नवीनं भवनं, ओपीडी तथा आधुनिकाः सुविधाः प्रदत्ताः भविष्यन्ति। तया उक्तम् यत् अतीत-सरकारायाः असफलतायाः सर्वोत्तम प्रमाणं इहबास-रुग्णालयस्य दुर्बलता अस्ति। सा अपि उक्तवन्ती यत् अधुना दिल्लीवासिनः समये गुणवत्तापूर्ण-चिकित्सां तथा आधुनिक-स्वास्थ्यसेवाः प्राप्स्यन्ति।

दिल्ली-स्थितं दिलशाद् गार्डनस्थं इहबास मुख्यं मानसिक-स्वास्थ्य तथा तन्त्रिकाविज्ञान-अनुसन्धानसंस्थानम् अस्ति। एतत् रोगिणां कृते उच्चस्तरीय-परिचर्या, शिक्षणं, प्रशिक्षणं च अनुसंधानसेवाः प्रदानं करोति। इदं भारतस्य च जगतः च अग्रगण्यं मानसिक-स्वास्थ्य-संस्थानं मध्ये एकं अस्ति। अस्मिन् प्रतिदिनं ढाई-तथा त्रयः सहस्र ओपीडी क्रियन्ते।

मुख्यमंत्री उक्तवन्ती यत् अतीत-सरकारेण एतादृशी महती संपत्तिः निरन्तरं उपेक्षिता। सा अपि उक्तवन्ती यत् २०१२ तः अद्यतनं पर्यन्तं इहबासे नवीनाः एमआरआई तथा सीटी-स्कैन-यन्त्राः प्रदत्ताः न सन्ति। एषा लापरवाही तस्याः अतीत-सरकारायाः संवेदनहीनतायाः प्रमाणं अस्ति या जनतानां आवश्यकतानां अदृष्टिम् कृतवती।

---------------

हिन्दुस्थान समाचार