Enter your Email Address to subscribe to our newsletters
वडोदरा, 10 सितंबरमासः (हि.स.)।गुजरातकेन्द्रीयविश्वविद्यालयेन भारतविकासपरिषद्या च, गुजरातदक्षिणप्रान्ते संयुक्ततत्वावधाने राष्ट्रं प्रथमम् इति सघनप्रशिक्षणकार्यक्रमः आरब्धः। चतुर्दिवसीयेऽस्मिन् कार्यक्रमे उद्घाटनसत्रे मुख्यातिथिः इन्दुफाउण्डेशनस्य संस्थापकः डॉ. विजयभाई शाह अवदत्—राष्ट्रः प्रथमः इत्यस्मिन् कार्यक्रमे वडोदराजिलस्य सर्वेषु विश्वविद्यालयेषु क्रियामाणः अस्ति। अस्याः अन्तर्गते छात्रेभ्यः छात्राभ्यश्च मानसिकं बौद्धिकं च प्रशिक्षणं प्रदास्यते।
संस्थायाः जनसंपर्कविभागेन प्रदत्तायाः विज्ञप्त्याः अनुसारम्, कार्यक्रमस्य अध्यक्षतां वहन् विश्वविद्यालयस्य कुलपतिः प्रो. रमाशङ्करदुबे अवदत्—अस्माकं विश्वविद्यालयस्य ध्येयवाक्यमपि 'वयं राष्ट्रे जाग्रयाम पुरोहिताः' इति। अस्माकं कर्तव्यं राष्ट्रं जाग्रयितुं भवेत्। वयं संकल्पं कुर्मः यत् राष्ट्रं सर्वदा जागृतं करिष्यामः।
तत् परं प्रो. दुबे अवदत्—स्वामि विवेकानन्दस्य शिकागोभाषणस्य प्रथमारम्भे एव विश्वे अद्वैतवेदान्तस्य प्रचारः जातः। तेनोक्तं—देशः सः भवति यस्य केवलं भूगोलिकः प्रदेशः अस्ति, परन्तु राष्ट्रं तत् भवति यस्य जीविता संस्कृति अस्ति। भारतस्य संस्कृति सनातनी संस्कृति। सभ्यताः आगत्य गच्छन्ति, किन्तु संस्कृतेः प्रवाहः न कदापि निवर्तते। भारतस्य संस्कृति अन्येषु देशेषु भिन्ना, अध्यात्मप्रधानाश्च। भारतभूमिः साधारणः भूमेः टुकडः नास्ति, अपि तु सः जीवन्-युक्तः राष्ट्रपुरुषः।
कार्यक्रमे भारतविकासपरिषद्याः केन्द्रीयसमितेः सदस्यः हितेशभाई अग्रवाल उक्तवान्—परिषदस्य ध्येयः सम्पर्कः, सहयोगः, संस्कारः, सेवा, समर्पणं च। सः अपि उक्तवान्—वर्तमानकाले भारतस्य सर्वेषु राज्येषु परिषदायाः १६०० शाखाः कार्यरताः, यत्र ७५,००० अधिकाः प्रबुद्धनागरिकाः सदस्यरूपेण सम्बद्धाः।
अस्मिन् अवसरि कार्यक्रमस्य संयोजकः डॉ. बलदेवप्रजापति कार्यक्रमस्य रूपरेखां प्रस्तुतवान्। मुख्यवक्ता गुजरातउच्चन्यायालयस्य अधिवक्ता हीरांशीशाह छात्रेभ्यः छात्राभ्यश्च अस्माकं संविधानस्य विशेषतान् अवगतवत्याः।
कार्यक्रमस्य अन्ते सहसंयोजकः डॉ. दीपकभानुशङ्करभट्ट सर्वेषां प्रति आभारं व्यक्तवान्। संचालनं डॉ. शिल्पा पॉपट कृतवती।
---------------
हिन्दुस्थान समाचार