Enter your Email Address to subscribe to our newsletters
वाराणसी, 10 सितंबरमासः (हि.स.)।प्रधानमन्त्रिणो नरेन्द्रमोदिनो मातुः हीराबेन-स्मृत्यर्थं बुधवासरे काश्याः तुलसीघाटे तर्पण-प्रार्थना-पौधरोपणकार्यक्रमः आयोजितः। पितृपक्षस्य तृतीये दिने कृतमिदं श्रद्धाञ्जलिसमारोहं जागृतिफाउण्डेशनस्य तत्वावधाने सम्पन्नम्।
अस्मिन् अवसरे भारतीयकिसानसंघस्य महानगराध्यक्षः प्रदीपकुमारमिश्रः संयोजकत्वेन अग्रे स्थित्वा आदौ हीराबायाः नाम्ना तर्पणं कृत्वा तस्यै श्रद्धाञ्जलिं अर्पितवान्। तर्पणस्य अनन्तरं घाटे उपस्थितेभ्यः श्रद्धालुभ्यः पौधाः वितरिताः, पर्यावरणसंरक्षणस्य संदेशः च दत्तः।
जागृतिफाउण्डेशनस्य रामयशमिश्रः तथा संयोजकः प्रदीपकुमारमिश्रः अवदताम्—प्रधानमन्त्रीनरेन्द्रमोदेर् माता हीराबा केवलं तस्य पुत्रस्यैव न, अपि तु सर्वदेशवासिनामपि श्रद्धायाः विषयः आसीत्। तया तादृशः सुपुत्रः जन्मितः, यः भारतं वैश्विकमञ्चे गौरवं प्रापयत्, राष्ट्रस्य विकासं नूतनशिखरैः पर्यन्तं नीतवान्।
रामयशमिश्रः अपि सूचितवान्—संस्था पितृपक्षकालपर्यन्तं तुलसीघाटे आगच्छद्भ्यः श्रद्धालुभ्यः मध्ये पौधवितरणं करिष्यति। तेनोक्तं—अस्य कार्यक्रमस्य उद्देश्यः केवलं दिवंगतात्मनां प्रति श्रद्धाञ्जलिं दातुं नास्ति, किन्तु पर्यावरणसंरक्षणे जनजागरूकता प्रसारयितुमपि।
अस्मिन् अभियानि प्रभुदत्तत्रिपाठी, हेमन्तत्रिपाठी ‘हाडिगुरुः’, स्वर्णप्रतापचतुर्वेदी इत्यादयः अनेके सामाजिककार्यकर्तारः सक्रियं सहयोगं दत्तवन्तः।
---------------
हिन्दुस्थान समाचार