Enter your Email Address to subscribe to our newsletters
पालमपुरम्, 10 सितंबरमासः (हि.स.)।पूर्वमुख्यमंत्री पूर्वकेंद्रीयमन्त्री च शान्तकुमारः प्रदेशेऽस्मिन् हालसमये अभ्युपस्थितायां भयंकरायां प्राकृतिकविपत्तौ प्रधानमन्त्रिणं नरेन्द्रं मोदीं प्रति आभारं व्यक्तवान्। सः उक्तवान्– एषा हिमाचलप्रदेशस्य इतिहासे सर्वाभ्यः भयानकीया आपद्भ्यः एकैवास्ति। एवं कठिनसमये प्रधानमन्त्रि मोदी स्वयम् एव दिल्लीतः धर्मशालां आगत्य प्रदेशवासिनः स्नेहेन सहानुभूत्याऽभ्यनन्दत्, पञ्चदशशतकोट्यधिकं रूप्यकं त्वरितसहाय्यरूपेण दत्तवान्। तस्मात् अतिरिक्तं प्रधानमन्त्रिणा कृषकसम्माननिधेः अग्रिमकिस्तस्य शीघ्रं प्रकाशनं प्रतिज्ञातम्।
शान्तकुमारः अस्य कृते प्रधानमन्त्रिणं हृदयेन धन्यवादं प्रकटितवान्। सः प्रदेशवासिनः प्रति अपि आह्वानं कृतवान्—भवद्भिः यथाशक्ति आपदार्थनिधौ दानं कर्तव्यम्। अद्यापि हिमाचले लक्षाधिकाः समर्थाः जनाः सन्ति येन कश्चन सहयोगोऽपि न दत्तः। अयं समयः भगवतः सत्यपूजायाः, आपद्कालीनमानवसेवा एव महती पूजा।
सः अपि उक्तवान्—आगामिनि १२ सितम्बरदिनाङ्के मम जन्मदिने सर्वे बन्धवः शुभेच्छवः च किमपि उपहारं मा आनयन्तु। अहं तस्मिन् दिने जन्मदिनं सरलतया आचरिष्यामि। अहं किमपि उपहारं न स्वीकरिष्यामि। भवतां स्नेहः आशीर्वादः च एव मम महान् उपहारः।
---------------
हिन्दुस्थान समाचार