Enter your Email Address to subscribe to our newsletters
पटना, 11 सितंबरमासः(हि.स.)।
बिहारराज्यस्य उपमुख्यमन्त्री सम्राट् चौधरी महोदयः अवदत् यत् दशहरा, दीपावली, छठ्, होली इत्यादि पर्वेषु अन्यराज्येभ्यः आगच्छद्भ्यः, गच्छद्भ्यश्च यात्रिकाणां श्रमिकाणां च सुविधार्थं अन्तर्राज्यीय-बस्-परिचालनाय विशेष-छूट् प्रदाने २४ कोटि ०६ लक्ष ३६ सहस्र-रूप्यकाणां स्वीकृतिः दत्ता।
उपमुख्यमन्त्रिणा चौधरी-महाभागेन गुरुवासरे प्रकाशिते निवेदने उक्तम्— वर्षे २०२५–२६ दुर्गापूजा, दीपावली, छठ्, होली च इत्येतानि अवसराणि दृष्ट्वा लोक-निजी-भागीदारी (PPP) मॉडल् अन्तर्गताः डीलक्स्-नन्-ए.सी., डीलक्स्-ए.सी., डीलक्स्- स्लीपर्-ए.सी. बसानां किरायेषु छूट् प्रदास्यते। तदर्थं २४ कोटि ०६ लाख ३६ सहस्र-रूप्यकाणां मंजूरी प्रदत्ता।
बिहार-राज्य-पथ-परिवहन-निगमेन (BSRTC) अस्य विशेष-छूट्-योजनायाः व्ययः २४.०६ कोटि-रूप्यकाणि अनुमानितानि। वर्तमान-बजट्-मदस्य अन्तर्गतं केवलं १० कोटि-रूप्यकाणि एव सन्ति। अतः अवशिष्ट-राशिः बिहार-आकस्मिकता-निधेः (BCF) अग्रिमरूपेण प्रदास्यते।
सम्राट् चौधरी महोदयः अवदत्— “बिहारे सार्वजनिक-परिवहनस्य सततम् विस्तारः क्रियते। डबल्-इञ्जिन्-युक्ता एन.डी.ए. सरकार् बिहार-राज्ये, बहिर्बिहारे च वसतां जनानां सुगम-सुरक्षित-यात्रायै प्रतिबद्धा। एष्यां श्रृंखलायामेव हालसमये रेल्वेना दीपावली-छठ्-पर्वयोः द्वादश-सहस्रं विशेष-ट्रेन-सेवा-प्रवर्तनं निर्णीतम्। अधुना बिहार-सरकारा अपि अन्तर्राज्यीय-बस्-परिचालनाय विशेष-छूट् प्रदातुं २४ कोटि ०६ लाख ३६ सहस्र-रूप्यकाणां स्वीकृतिं दत्तवती।”
---------------
हिन्दुस्थान समाचार