Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 12 सितंबरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डा. हिमन्तबिस्वः शर्माणः महापुरुषस्य श्रीश्री माधवदेवस्य पावनायां तिरोभाव-तिथौ (पुण्यतिथौ) तस्मै सादरं श्रद्धाञ्जलिम् अर्पितवान्।
मुख्यमन्त्रिणा उक्तम्— महापुरुषेण माधवदेवेन असमराज्यस्य सांस्कृतिक-आध्यात्मिक-धरोहरस्य संवर्धने अमूल्यं योगदानं दत्तम्, महापुरुषस्य श्रीमन्तशंकरदेवस्य दृष्टिः च अग्रे नीताऽभूत्। तस्य दर्शनानि, रचनाः, वाणी च अद्यापि समाजस्य मार्गदर्शकाः सन्ति।
डा. शर्मणा प्रार्थितम्— असमराज्यं निरन्तरं प्रगतिं कुर्यात् इति। सः विश्वासं प्रकटितवान् यत् सन्तेन प्रदर्शितः मार्गः असमजनानाम् ऐक्यम् उत्पाद्य राज्यम् अधिकं सशक्तं समृद्धं च कर्तुं प्रेरणां दास्यति इति।
हिन्दुस्थान समाचार / अंशु गुप्ता