Enter your Email Address to subscribe to our newsletters
₹३४५ कोटि रूप्यकाणां व्ययेन विकासकार्याणां भूमिपूजनं लोकार्पणं च करिष्यन्ति।
भोपालम्, 12 सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अद्य शुक्रवासरे झाबुआजनपदस्य पेटलावद्नामकस्थले आयोजिते राज्यस्तरीये कार्यक्रमे मुख्यमन्त्रीलाडलीबहनायोजनान्तर्गतं प्रदेशस्य १.२६ कोट्यधिकानां लाडलीबहनानां अधिकोषे अष्टाविंशत्याः किश्तेः १५४१ कोट्यधिकरूप्यकपरिमितां राशिं एकेन क्लिकेन अंतरणं करिष्यन्ति। मुख्यमन्त्री अस्मिन् अवसर एव सामाजिकसुरक्षापेन्शनायोजनान्तर्गतं प्रदेशस्य ५३.४८ लाखाधिकानां पेन्शनहितग्राहिणां अधिकोषे ३२०.८९ कोट्यधिकरूप्यकपरिमितायाः राशेः अपि एकेन क्लिकेन अंतरणं करिष्यन्ति।
अस्मिन् सम्बन्धे मुख्यमन्त्रिणः दैनन्दिनं माध्यमकार्यार्थं निवेदयन्ती अधिकृताबबीता मिश्रा उक्तवती यत् मुख्यमन्त्री डॉ. यादवः प्रधानमन्त्रिणः उज्ज्वला-योजनायाः एल्-पी-जी-संयोजनधारिणः उपभोक्तॄन् अपि, अपरप्रधानमन्त्री-उज्ज्वला-योजनाश्रेण्याम् अन्तर्गतान् च मुख्यमन्त्री-लाडली-बहना-योजनायाः पञ्जीकृतलाडलीबहनाः विशेषपिछडिजनजात्याः आर्थिकयोजनान्तर्गतं पञ्जीकृताः च ३१ लाखाधिकाः बहनाः, एषां खातासु ४५० रूप्यकाणि गैस्-पूनुपूर्तिहेतु ४८ कोट्यधिकरूप्यकपरिमितां राशिं अपि एकेन नोदनेन अंतरणं करिष्यन्ति।
तस्याः सूचनायाः अनुसारं मुख्यमन्त्री डॉ. यादवः राज्यस्तरीये कार्यक्रमे झाबुआजनपदस्य ३४५.३४ कोटिरूप्यकव्ययेन ७२ाधिकविकासकार्यानां भूमिपूजनं लोकार्पणं च करिष्यन्ति। अत्र विभिन्नविभागैः १९४.५६ कोटिरूप्यकव्ययेन ३५ विकासकार्याणां भूमिपूजनं च, १५०.७८ कोटिरूप्यकव्ययेन ३७ विकासकार्याणां लोकार्पणं च करिष्यते।
मुख्यमन्त्री डॉ. यादवः जिलाप्रशासनद्वारा सम्यक् सज्जीकृतां जनजातीय-आयुर्वेदिक-परम्परा-चिकित्साज्ञानपर केन्द्रितां पुस्तकां “झाबुआ के संजीवक” इति विमोक्ष्यन्ति। अस्मिन् ग्रन्थे जनजातीयवर्गे शताब्दीयात् स्थितं औषधिबलप्रयुक्तं चिकित्सासम्पदं संकलितं, दस्तावेजीकृतं च जातम्। “डुंगर बाबा नी जडी बूटियों नु जोवनार” इति नाम्ना जिलास्तरीय-विकासखण्डस्तरीय कार्यशालाः आयोज्य, तस्य संकलनं पुस्तकस्वरूपेण कृतम् अस्ति।
अतिरिक्तं मुख्यमन्त्री डॉ. यादवः बी.पी.एल्.कुटुम्बानां ११ दिव्याङ्गहितग्राहिभ्यः चतुष्चक्रपेट्रोलचालितमोटरसायकलवितरणं करिष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता