बिहार विधानसभानिर्वाचनम् 2025 : दरभंगाया डीईओ अकरोत् सज्जानां समीक्षाम्
दरभंगा, 12 सितम्बरमासः (हि.स.)। आगामिनि बिहार–विधानसभा–सामान्य–निर्वाचने स्वच्छं निष्पक्षं पारदर्शकं शान्तिपूर्णं च वातावरणं सुनिश्चित्य निर्वाहनार्थं दरभङ्गा–जिलाप्रशासनस्य प्रयत्नाः तीव्रतया प्रवर्तमानाः। अस्मिन् क्रमणे जिलानिर्वाचनाधिकारिणः सह–ज
दरभंगा:  अधिकारियों की चुनाव तैयारी मीटिंग की तस्वीर।


दरभंगा, 12 सितम्बरमासः (हि.स.)। आगामिनि बिहार–विधानसभा–सामान्य–निर्वाचने स्वच्छं निष्पक्षं पारदर्शकं शान्तिपूर्णं च वातावरणं सुनिश्चित्य निर्वाहनार्थं दरभङ्गा–जिलाप्रशासनस्य प्रयत्नाः तीव्रतया प्रवर्तमानाः।

अस्मिन् क्रमणे जिलानिर्वाचनाधिकारिणः सह–जिलाधिकारी कौशलकुमारस्य अध्यक्षतायाम् समाहरणालये स्थिते बाबासाहेब–डॉ.भीमराव–आम्बेडकर–सभागारे शुक्रवासरे समीक्षोपवेशनमृ आयोजितम् अभूत्।

बैठकायां वाहन–विधिव्यवस्था–आदर्श–आचारसंहिता–बज्रगृह–सह–मतगणना इत्यादीनां विभागानां विस्तारतया समीक्षा कृताभूत्।

वाहन–कोषाङ्गः – निर्वाचनकर्मणि प्रयोजनीयानां वाहनानाम् उपलब्धता, अधिग्रहणं, ट्रैकिङ्ग् इत्यस्य विषये चर्चा जाता। जिलानिर्वाचनाधिकारीणाऽखिलानां वाहनानां पूर्वसर्वेक्षणं कृत्वा तेषां स्थिति–विधानसभावारं मूल्यांकनं करणीयमिति निर्दिष्टम्। आवश्यके सति अतिरिक्त–वाहन–अधिग्रहणप्रक्रिया शीघ्रं आरभ्यताम् इत्यपि आदेशः प्रदत्तः।

विधि–व्यवस्था – शान्तिपूर्णमतदानाय सुरक्षा–प्रस्तुतयः समीक्षितााः। संवेदनशील–अतिसंवेदनशील–मतदानकेंद्राणां सूची अद्यतनं करणीयम्, फ्लैग्–मार्च् तथा शान्तिसमिति–बैठकाः च आयोजितव्याः इत्यपि निर्णीतम्।

आदर्श–आचारसंहिता – निर्वाचनायोगस्य निर्देषाणाम् अक्षरशः पालनम् अपेक्षितम् इति बलपूर्वकं निर्दिष्टम्। राजनीतिकदलोंनां प्रचारः, सार्वजनिकस्थानोपयोगः, सामाजिकमाध्यम–निरीक्षणं च कुर्युः इति टीमाः अलर्ट्–मोड् मध्ये स्थापितााः।

बज्रगृह–सह–मतगणना – स्ट्रॉन्ग्–रूम्–सुरक्षा, सीसीटीवी–आवरणम्, द्विलोक–व्यवस्था, २४×७ निगराणी, मतगणनास्थल–संरचना, कर्मचाऱ्याः नियुक्तिः च विशेषतया विचारितााः।

जिलानिर्वाचनाधिकारी अवदत् यत् निर्वाचनकार्यं अतीव संवेदनशीलं दायित्वपूर्णं च। अतः सर्वे पदाधिकारीणः स्वदायित्वानि गम्भीरतया निष्ठया च निर्वहन्तु, निर्वाचनायोगस्य निर्देषाणां अक्षरशः पालनं सुनिश्चितं कुर्युः।

गोष्ठ्याम् सहायक–समाहर्ता के. परीक्षित, अपर–समाहर्ता (लोक–शिकायत) अनिलकुमारः, अपर–समाहर्ता (विधि–व्यवस्था) राकेश–रञ्जनः, उप–निदेशकः जनसम्पर्कस्य सत्येन्द्रप्रसादः, जिला–परिवहन–अधिकारी, उप–निर्वाचन–अधिकारी सुरेशकुमारः, अन्ये विभागेषु वरीय–पदाधिकारीणः च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार