बी.टी.आर. प्रदेशे शान्तेः सतत-विकासस्य च मार्गः — मुख्यमन्त्री डा. सरमा
गुवाहाटी, 12 सितम्बरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डा. हिमन्तबिस्वः सरमा उक्तवान् यत् बोडोलैण्ड् टेरिटोरियल् रीजन् (बी.टी.आर्.) हिंसादौरात् निर्गत्य अधुना शान्तिदिशं प्रति अग्रसरः अभवत्। मुख्यमन्त्रिणा उक्तम्— राज्यसर्वकारः जैवविविधतां प्राक
Image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 12 सितम्बरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डा. हिमन्तबिस्वः सरमा उक्तवान् यत् बोडोलैण्ड् टेरिटोरियल् रीजन् (बी.टी.आर्.) हिंसादौरात् निर्गत्य अधुना शान्तिदिशं प्रति अग्रसरः अभवत्।

मुख्यमन्त्रिणा उक्तम्— राज्यसर्वकारः जैवविविधतां प्राकृतिक-पर्यावरणं च संरक्ष्य जनानाम् एकं सुरक्षितं वातावरणं दत्तवती अस्ति। अस्य प्रमाणं बी.टी.आर्. प्रदेशे आरब्धा ‘ग्रीन मिशन्’ नाम योजना सफलतां प्राप्तवती इति।

पर्यटनं प्रति सः अवदत्— अद्यावत् अर्धलक्षात् अधिकाः पर्यटकाः बी.टी.आर्. प्रदेशं प्राप्तवन्तः, अत्र च अरण्यानि पूर्वस्मात् अधिकं सुरक्षितानि भवन्ति। सरमेन उक्तम्— “अस्माकं लक्ष्यं केवलं भौतिक-अवसंरचनायाः विकासः न, अपितु बी.टी.आर्.-प्रदेशस्य समृद्धं प्राकृतिकं न्यासं च संवर्धयितुम्। वयं विकसित-बी.टी.आर्.-निर्माणाय संकल्पिताः स्मः।”

हिन्दुस्थान समाचार / अंशु गुप्ता