Enter your Email Address to subscribe to our newsletters
बालकेभ्यः जीवनकौशल-शिक्षां दातुं कार्यक्रमः प्रवर्तितः।
भोपालम्, १२ सितम्बरमासः (हि.स.)।
उमङ्गः चेत् जीवने रङ्गः इत्यस्य विषयस्य अधारेण अद्य शुक्रवासरे मध्यप्रदेशस्य ९ सहस्र ३०० उच्च-उच्चतरमाध्यमिकविद्यालयेषु उमङ्गदिवसः आचर्यते। अस्य कार्यक्रमस्य लाभः २० लक्षाधिकबालकेभ्यः भविष्यति। अस्य मुख्यलक्ष्यम् अस्ति — विद्यार्थिनः विश्वस्वास्थ्यसंघेन (WHO) निर्दिष्टैः दशभिः जीवनकौशलैः परिचितान् कर्तुम्। अस्य सहाय्येन बालकाः जीवनस्य विविधस्पर्धां धैर्येण समर्थतया च समुत्स्यन्ते। अपरं लक्ष्यं तेषां जीवनमार्गे प्रगतये सज्जानां निर्मितिः।
अधिकारी महिपाल-अजयः उक्तवान् — एषः कार्यक्रमः शालेयशिक्षाविभागस्य संयुक्त-राष्ट्र-जनसंख्या-कोषस्य (UNFPA) च सहयोगेन निर्मितः। गतसप्तवर्षेषु जीवनकौशलाधारितस्य पाठ्यक्रमस्य संचालनं कठोरपरिश्रमेण कृतम्। तेन बालकेषु उत्पन्नाः सकारात्मकाः परिवर्तनाः उत्सवभावेन उमङ्गदिवसे मन्यन्ते। अस्मिन् कार्यक्रमे बालकाः स्वानुभवान् परस्परं विभजन्ति, अन्यान् अपि विद्यार्थिनः प्रेरयन्ति मार्गदर्शनं च कुर्वन्ति।
ते अपि अवदन् यत् — उमङ्ग शालेय-स्वास्थ्य-कल्याण-कार्यक्रमः नामकः प्रमुखः कार्यक्रमः अस्ति। तस्मिन् क्रियापरकाः कक्षाविशिष्टाः जीवनकौशलभागाः सन्ति, ये शिक्षाविभागेन, स्वास्थ्यविभागेन, संयुक्त-राष्ट्र-जनसंख्या-कोषेण च सह मिलित्वा प्रवर्तन्ते। प्रदेशस्य सर्वेषु शासकीय-उच्च-उच्चतरमाध्यमिक-
विद्यालयेषु प्रत्येकं मंगलवासरं एकं सत्रं सञ्चालितम्।
प्रत्येकशालातः द्वौ अध्यापकौ (एकः पुरुषः, एका स्त्री) स्वास्थ्य-कल्याण-दूतौ रूपेण प्रशिक्षितौ। राज्ये अद्यावधि: प्रायः १९ सहस्र-अध्यापकाः प्रशिक्षिताः सन्ति। एते प्रशिक्षित-अध्यापकाः हेल्थ-वेलनेस-एम्बेसडर-कक्षासु जीवनकौशलाधारिताः क्रियाः संचालयन्ति।
उमङ्गदिवसस्य अवसरे सति, विविधविभागानां अधिकारिणः, प्रेरणादायकवक्ता: च विद्यालयेषु आमन्त्रिताः भविष्यन्ति, येन विद्यार्थी उत्साहपूर्वकं प्रगतिं कर्तुं प्रेरिताः स्युः। अस्मिन् कार्यक्रमे न केवलं विद्यार्थिनः, अपितु विद्यालये उपस्थिताः सर्वे अध्यापकाः अपि अस्य विषयस्य ज्ञानं प्राप्स्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता