Enter your Email Address to subscribe to our newsletters
- विलासविहारशिबिरात् आकाशीय- साहसिकयात्रायाः रोमांचकानुभवः प्राप्स्यते।
भोपालम्, 12 सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्रिणा डॉ. मोहन यादवेन अद्य शुक्रवासरे मंदसौर-प्रदेशे गान्धीसागर-वनविश्रामशिबिरस्य चतुर्थसंस्करणस्य उद्घाटनं करिष्यते। एषः विश्रामशिबिरः लल्लूजी एण्ड् सन्स् इत्यनेन मध्यप्रदेश-पर्यटनमण्डलस्य सहयोगेन विकसितः अस्ति, यः विलासविहार-शिबिरं, साहसिक-पर्यटनं, सांस्कृतिक-क्रियाः च इत्येषां अद्वितीयं संगमनं वर्तते।
अधिकारी के.के. जोशी इत्यनेन निवेदितं यत् अस्मिन् गान्धीसागर-वनविश्रामशिबिरे पर्यटकाः टेन्ट्-नगर्यां गर्मवायुपिण्डयानम्, परामोटरिंग्, जेट्-स्किइङ्, कायाकिङ्, मोटर्-नौकायानम् इत्यादि रोमांचक-क्रियासु भागं गृह्णीयुः। हिङ्गलाजगढ-दुर्गस्य धरोहर-पथः, गान्धीसागर-अभयारण्ये वन्यजीव-सफारी, ग्राम्यजीवनस्य अनुभवः च पर्यटकानाम् आकर्षणस्य अङ्गानि भविष्यन्ति।
तेन उक्तं यत् अस्मिन् विश्रामशिबिरे पर्यावरणसंरक्षणे जैवविविधतायाञ्च विशेषं ध्यानं कृतम् अस्ति। प्रायः २५०० वर्गमीटर-प्रदेशे विकसितः चित्रपतङ्ग-उद्यानः अस्ति, यत्र ४०००-अधिकाः पोषक-परागजन्य-प्रजातयः रोपिताः। अत्र पूर्वमेव ४०-अधिकाः चित्रपतङ्ग-प्रजातयः दृष्टाः सन्ति। एषः केन्द्रः शैक्षणिकं व्याख्यानस्थलञ्च भविष्यति, यः पर्यटकान् चित्रपतङ्गानां जीवनचक्रे अवगतिं करिष्यति।
अतिरिक्ततया अस्मिन् ऋतौ शैलचित्र-व्याख्यान-मण्डलः यः चतुर्भुजनालस्य प्राचीन-शैलचित्रकला-प्रेरितः अस्ति, जैवविविधता-पर्यटनपथः च सम्मिलिताः सन्ति। पर्यटकाः अस्मिन् विश्रामशिबिरे निर्देशित-चित्रपतङ्ग-उद्यान-पर्यटनम्, प्रकृति-पर्यटनम्, पक्षिदर्शनम्, जलक्रीडाः (त्वरित-नौकायानम्, केलेनौका-यानम्, जेट्-स्किइङ्, कायाकिङ्), आकाशीय-साहसिकानुभवः (गर्मवायुपिण्डयानम्, परामोटरिंग्) इत्यादीनां उत्कृष्टानुभवान् प्राप्य प्रकृतेः समीपं गन्तुं शक्नुयुः।
हिन्दुस्थान समाचार / अंशु गुप्ता