भाद्र मासस्य सांस्कृतिकस्य आध्यात्मिकस्य च महत्वस्य मुख्यमंत्री कृतवान् गुणगानम्
गुवाहाटी (असमः), 13 सितम्बरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा अवदत् यत् भाद्रमासः राष्ट्रस्य सांस्कृतिक-आध्यात्मिकजीवने विशेषं महत्त्वं धारयति। तेनोक्तं यत् अयं मासः भगवान्श्रीकृष्णजन्माष्टमी, महापुरुषः श्रीमन्तशङ्करदेवस्य पु
Image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी (असमः), 13 सितम्बरमासः (हि.स.)।

असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा अवदत् यत् भाद्रमासः राष्ट्रस्य सांस्कृतिक-आध्यात्मिकजीवने विशेषं महत्त्वं धारयति। तेनोक्तं यत् अयं मासः भगवान्श्रीकृष्णजन्माष्टमी, महापुरुषः श्रीमन्तशङ्करदेवस्य पुण्यतिथिः, महापुरुषः माधवदेवस्य च पुण्यतिथिः—एतेन अधिकं पवित्रः भवति।

शुक्रवासरे महापुरुषमाधवदेवस्य पुण्यतिथौ नलबाडीनगरस्थे श्रीश्रीहरिमन्दिरप्राङ्गणे सप्तसहस्राधिकाः महिला-श्रद्धालवः “दिहानाम” इत्यस्य आयोजनं कृतवन्त्यः। मुख्यमन्त्रिणा एषः उत्सवः गहनरमणीयः आध्यात्मिकदृश्यश्च इति वर्णितः।

डॉ. सरमा उभयोः महापुरुषयोः चरणयोः कृतज्ञतां व्यक्त्वा नामप्रसङ्गेन आत्मनः श्रद्धाम् अर्प्य अवदत् यत् एषः असमियसमाजस्य गाढाभक्तेः सांस्कृतिकमूलानां च प्रतीकः अस्ति।

हिन्दुस्थान समाचार