सुरक्षित दुर्गोत्सवाय बालुरघाट प्रशासनं प्रासारयत् निङ्निर्देशान्
बालुरघाटम्, 13 सितंबरमासः (हि.स.)। केवलं द्वाभ्यां सप्ताहाभ्यां परं आरभ्यमाणे पश्चिमबङ्गस्य महत्तमे सांस्कृतिक-धार्मिकोत्सवे दुर्गापूजायां शान्तिपूर्वकं सुरक्षितपूर्वकं च सम्पादनाय बालुरघाटजिल्लाप्रशासनं पोलिस् विभागश्च कठोरानि निर्देशान् प्रकटितवन्
सुरक्षित दुर्गोत्सव के लिए बालुरघाट प्रशासन ने जारी की गाइडलाइन


बालुरघाटम्, 13 सितंबरमासः (हि.स.)।

केवलं द्वाभ्यां सप्ताहाभ्यां परं आरभ्यमाणे पश्चिमबङ्गस्य महत्तमे सांस्कृतिक-धार्मिकोत्सवे दुर्गापूजायां शान्तिपूर्वकं सुरक्षितपूर्वकं च सम्पादनाय बालुरघाटजिल्लाप्रशासनं पोलिस् विभागश्च कठोरानि निर्देशान् प्रकटितवन्तौ। विशेषतया प्रतिमाविसर्जनस्य विषये अस्मिन् वर्षे दृढतराः नियमाः प्रवर्तिष्यन्ते यत् कस्यचित् प्रकारस्य दुर्घटना न भवेत्।

अतिरिक्तपुलिसाधीक्षकः कार्तिकचन्द्रमण्डल इत्यनेन निगदितम् – “दुर्गाप्रतिमायाः विसर्जनं यत्रकुत्रापि न भविष्यति। केवलं प्रशासनद्वारा निर्दिष्टेषु नदितडागेषु एव विसर्जनं करणीयम्। गतवर्षे विसर्जनकाले दुर्घटना जाता। अतः अस्मिन् वर्षे निर्णयः कृतः यत् केवलं निर्दिष्टेषु स्थलेषु एव विसर्जनस्य अनुमतिः भविष्यति। अपि च ये जनाः तर्तुं न जानन्ति, ते जलाशयेऽवतीर्णुं विसर्जनकार्यार्थं न अनुमन्यन्ते। अस्माकं लक्ष्यं केवलं तावत् यत् पूजासम्बद्धा का अपि अप्रिया घटना न जायेत।

शुक्रवासरसायं बालुरघाटजिल्लाप्रशासनभवनप्राङ्गणे स्थिते ‘बालु-छाया’ सभागारे समन्वय-सभायां आयोजिता जिल्लाधिकारी बिजिन्कृष्णः, पुलिसअधीक्षकः चिन्मयमित्तलः, मुख्यस्वास्थ्याधिकारी डॉ. सुदीपदासः, एस.डी.पी.ओ. दीपाञ्जनभट्टाचार्य इत्यादयः अधिकारीणः उपस्थिताः आसन्। अग्निशमनविभागस्य विद्युत् विभागस्य च कर्मचारी अपि सन्ति स्म। तस्मिन् अवसरे पूजायोजकानां कृते सरकारीयवित्तीयानुदानस्य चेक्पत्रं वितरितम्।

प्रशासनम् अवदत् यत् सर्वत्र डीजे-वाद्यम् पूर्णरूपेण निषिद्धं भविष्यति, सर्वे क्लबाः प्रशासननिर्दिष्टगाइडलाइनं पालनीयम्। अस्मिन् वर्षे जिल्हाभ्यन्तरे समग्रेषां 561 पूजायोजकानां कृते आर्थिकानुदानं दत्तं भविष्यति।

यतो हि वर्षाकालः सम्पूर्णतया न समाप्तः, अतः डेंगूनिवारणाय मण्डपप्राङ्गणस्य विशेषस्वच्छतायाः आदेशः अपि प्रदत्तः। दुर्गापूजायां काले जिल्हे प्रायः सप्तसहस्राः पुलिसकर्मिणः नियुक्ताः भविष्यन्ति। भीडनियन्त्रणं यातायातव्यवस्था च कृते बालुरघाटनगर्यां टोटोयानानां विशेषमार्गाः निश्चिताः भविष्यन्ति, येन जनाः सुलभतया पूजादर्शनं कर्तुं शक्नुयुः।

प्रशासनं पुलिसविभागश्च स्पष्टं ब्रुवतः स्तः – दृढनियमैः निग्रहेण च बालुरघाटनिवासिनः सर्वेऽपि अस्याः दुर्गोत्सवस्य वर्षे शान्तिपूर्णे आनन्दमये च वातावरणे उत्सवं सम्यक् अनुभविष्यन्ति।

---------------

हिन्दुस्थान समाचार