Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 13 सितंबरमासः (हि.स.)। दिल्लीनगर्याः मुख्यमन्त्री स्थानीयविधायिका च रेखागुप्ता स्वस्य शालिमारबागविधानसभाक्षेत्राय हॉटलाइन मेन्टेनेन्स् वेन इत्यस्य सौगातं दत्तवती। एषा अति-आधुनिक-यानरूपी वेन 1.5 कोटि-रूप्यकव्ययेन सज्जीक्रियते या विद्युत्-निरोधानं विना एव विद्युत्सूतानां मरम्मतं करिष्यति। आगामिकाले एषा व्यवस्था समग्रायां दिल्ली-नगर्यां प्रवर्तिष्यते।
मुख्यमन्त्रिणा शनिवासरे एक्स पोस्ट इत्यस्मिन् उक्तं यत् क्षेत्रे नूतनाः स्ट्रीट्-लाइटाः स्थाप्यन्ते, यत्र च समग्रायां दिल्ली-नगर्यां 44 सहस्रं नूतनदीपाः स्थाप्यन्ते येन प्रकाशः सुरक्षा च दृढतरं भविष्यतः। मुनक-नहर-प्रदेशे 5 सहस्र-कोटि-रूप्यकव्ययेन नूतना सड़क-निर्मितिः भविष्यति। तस्मिन्नेव नहरे नूतनः छठ-घाटः निर्मीयते। अद्य मुनक-नहर-दुर्घटनायाः पीडितकुटुम्भेभ्यः सहायधनं दत्तम्। भविष्यात् एषा दुर्घटना न भूयात् इति नहरस्य रक्षणं, बैरिकेडिङ्गं, शुद्धीकरणं च सम्पूर्णतया दिल्ली-सरकारायां स्यात्।
तेन उक्तं यत् हैदरपुरे नूतनः उच्चतर-माध्यमिक-विद्यालयः सामुदायिक-भवनं च अनुमोदितम्। सी.ए. ब्लॉके नूतनं यू.जी.आर्. निर्मीयते येन जल-आपूर्तेः समस्या सर्वदा नश्येत्। तत्रैव योगा-शेल्टरस्य निर्माणं आरब्धम्, बालकानां कृते नूतनं खेल-प्रदेशः प्ले-स्टेशनं च निर्मीयते। अस्माकं सरकारेण शिशमहल-पार्क-समीपे 12 सहस्र-गज-प्रदेशेऽवैध-आवरणं निष्कास्य प्रजाभूमिः पुनः जनानाम् उपलभ्यते।
अस्मिन् अवसरे सांसदः प्रवीण-खण्डेलवालः, दिल्ली-ऊर्जा-मन्त्री आशीष-सूदः अपि उपस्थिताः। तेन सह मुख्यमन्त्रिणा अद्य गुरु-गोविन्दसिंह-विद्यालयस्य समीपे रिङ्ग्-रोड्-संयोजनीया मार्गस्य निरीक्षणं कृतम्। तेन उक्तं यत् पूर्वसर्वकारस्य प्रमादात् एषः सम्पूर्णः मार्गः अतिक्रमणेन पीडितः। अस्माकं सरकारेण तदतिक्रमणं निष्कास्य 12 कोटि-रूप्यकव्ययेन नूतनमार्गनिर्माणं प्रवर्त्यते। अयं मार्गः टी.वी.-टावरतः प्रत्यक्षं रिङ्ग्-रोड् पर्यन्तं संयोजनं दास्यति येन क्षेत्रे सहस्रशः जनानाम् आवागमनं सुगमं भविष्यति।
---------------
हिन्दुस्थान समाचार