मध्यप्रदेशः - राष्ट्रीयन्यायालये अद्य परस्परसहमत्या प्राचीनविवादानां समाधानं प्राप्स्यन्ति।
इन्दौरम्, १३ सितम्बरमासः (हि.स.)। राष्ट्रियविधिसेवाप्राधिकरणम् नवदेहल्यां, मध्यप्रदेशराज्यविधिसेवाप्राधिकरणम् जबलपुरे च इत्येतयोः निर्देशानुसारम् अद्य (शनिवासरे) प्रदेशस्य सर्वेषु जनपदन्यायालयेषु, श्रमन्यायालयेषु, कुटुम्बन्यायालयेषु, उपभोक्तृमञ्चेषु,
अदालत (प्रतीकात्मक तस्वीर)


इन्दौरम्, १३ सितम्बरमासः (हि.स.)। राष्ट्रियविधिसेवाप्राधिकरणम् नवदेहल्यां, मध्यप्रदेशराज्यविधिसेवाप्राधिकरणम् जबलपुरे च इत्येतयोः निर्देशानुसारम् अद्य (शनिवासरे) प्रदेशस्य सर्वेषु जनपदन्यायालयेषु, श्रमन्यायालयेषु, कुटुम्बन्यायालयेषु, उपभोक्तृमञ्चेषु, तहसीलस्तरे तहसीलन्यायालयेषु च राष्ट्रीयन्यायालयस्य आयोजनं क्रियते। अस्मिन् राष्ट्रीयन्यायालये प्राचीनविवादाः परस्पर- विमर्शेन निराकरणं प्राप्स्यन्ति।

जनपदविधिसेवाप्राधिकरणस्य सचिवः शिवराजसिंहगवली अवदत् यत् इन्दौरे आयोज्यमाने राष्ट्रीयन्यायालये विभिन्नेषु न्यायालयेषु राजीनामयोग्यापराधिकप्रकरणानि २३७२, दिवानीप्रकरणानि ४७०, यानदुर्घटनापरिहारप्रकरणानि १३७६, विद्युत्प्रकरणानि १९५२, चेक्प्रतिघातप्रकरणानि ४३९५, वैवाहिकप्रकरणानि ८०, अन्यप्रकरणानि ८०९, इति समष्ट्या ११४५४ लम्बितप्रकरणानि राष्ट्रीयन्यायालये निराकरणाय स्थापितानि।

अतिरिक्ततया वित्तकोषपुनर्प्राप्तिप्रकरणानि ९३२०८, विद्युत्प्रकरणानि १८३५ च पूर्वविचारणा-प्रकरणानि राजीनामाधारेण निराकरणाय स्थाप्यन्ते।

इन्दौरजनपदेस्मिन् राष्ट्रीयन्यायालये न्यायालयेषु लम्बितेषु प्रकरणेषु पूर्वविचारणाप्रकरणेषु च निराकरणाय जनपदन्यायालये ६५ खण्डपीठाः, तहसीलडा. अम्बेड्करनगरमध्ये १५ खण्डपीठाः, देपालपुरे ४, सांवेर्यां ४, हातौदे १, इति समष्ट्या ८९ खण्डपीठाः गठिताः।

अस्मिन् राष्ट्रियन्यायालये आपराधिक, दिवानी, वैवाहिक, यानदुर्घटना, चेक्प्रतिघात, श्रमन्यायालय, उपभोक्तृप्रकरणं, अन्यप्रकरणानि च, विद्युतनियमस्य २००३ धारा १२६ तथा १३५ अन्तर्गतं विद्युतोपभोक्तृप्रकरणानि च निराकरणं प्राप्स्यन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani