मध्यप्रदेशे अद्य प्रभावीकक्षाशिक्षणस्य विषये शिक्षका: विमर्शं करिष्यन्ति।
भोपालम्,13 सितम्बरमासः(हि.स.)। मध्यप्रदेशे राष्ट्रीयशिक्षानीतिः २०२० अन्तर्गतं शिक्षकाश्चिरस्थायी-व्यावसायिक- विकासाय राज्यशिक्षाकेन्द्रेन जनशिक्षाकेन्द्रस्तरे शैक्षिकसंवादः आयोज्यते। कक्षा-१ तः ८ पर्यन्तं सर्वेभ्यः शिक्षकेभ्यः प्रत्येकं शनिवासरे आय
लोक शिक्षण संचालनालय (फाइल फोटो)


भोपालम्,13 सितम्बरमासः(हि.स.)। मध्यप्रदेशे राष्ट्रीयशिक्षानीतिः २०२० अन्तर्गतं शिक्षकाश्चिरस्थायी-व्यावसायिक-

विकासाय राज्यशिक्षाकेन्द्रेन जनशिक्षाकेन्द्रस्तरे शैक्षिकसंवादः आयोज्यते। कक्षा-१ तः ८ पर्यन्तं सर्वेभ्यः शिक्षकेभ्यः प्रत्येकं शनिवासरे आयोज्यमानेषु एतेषु संवादसत्रेषु शिक्षकाः परस्परं विविधैः शैक्षिणिकविषयैः सह विमर्शं कुर्वन्ति।

अस्यां श्रृंखलायाम् अद्य शनिवासरे शैक्षिकसंवादसत्रे कक्षा-१ तः ५ पर्यन्तं शिक्षकाः “प्रभावी शिक्षणे आङ्ग्लविषयस्य शिक्षकसन्दर्शिकायाः भूमिका” इत्यस्मिन् विषये चर्चां करिष्यन्ति, कक्षा-६ तः ८ पर्यन्तं शिक्षकाः “पूर्वज्ञानं च समूहकार्यं च” इत्यस्मिन् विषये विचारयिष्यन्ति।

उल्लेखनीयं यत्, विद्यालयशिक्षाविभागस्य निर्देशेन मध्यप्रदेशे राज्यस्तरीय-शैक्षिकसंवादाः राज्यशिक्षाकेन्द्रेण च 'पीपलस्' इत्यस्य सहायकसंस्थायाः संयुक्ततत्वावधानम् अन्तर्गृह्य यशस्विनः आयोज्यन्ते।

हिन्दुस्थान समाचार / Dheeraj Maithani