Enter your Email Address to subscribe to our newsletters
भोपालम्, 13 सितंबरमासः (हि.स.)।
मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः शनिवासरे गान्धीसागरे चम्बलनद्याः अद्भुतं मनोहरं प्राकृतिकं दृश्यं अनुभूय नौकायामारुह्य नौकायात्रां कृतवान्। सः नौकायां स्थित्वा नद्याः रमणीयां छटामवलोक्य अस्याः मोहकयात्रायाः आनन्दं प्राप।
मुख्यमन्त्रिणा सह सांसदः सुधीरगुप्तः, गरोठविधायकः चन्द्रसिसोदिया, आयुक्तः आशीषसिंहः, महानिरीक्षकः उमेशजोगा, जिलाधिकारी अदितीगर्गः, पुलिसअधीक्षकः विनोदकुमारमीणा च अपि नौकायात्रां कृतवन्तः।
नौकायात्रानन्तरं मुख्यमन्त्री डॉ. यादवः नद्यां बाइक्-नौकामपि प्रावर्तयत्। जलतरङ्गेषु बाइक्-नौकां सञ्चालयन् सः अतीव हर्षितः उत्साहितश्च अभवत्। तेनोक्तं— “एवम् प्रकाराणि क्रियाकलापाः केवलं पर्यटनस्य प्रोत्साहनं न करिष्यन्ति, अपि तु प्रदेशस्य प्राकृतिकधरोहराणां दर्शन-सम्बोधनाय नवीनं अवसरं दास्यन्ति।”
अनन्तरं सः सफारी-जीपे उपविष्टः एयर्-बलून-स्थलस्य दिशं गतः। मार्गे तेन सफारी-जीपेन टेन्ट्-सिटि-प्रदेशस्य अपि अवलोकनं कृतं, पर्यटन-सुविधानां आकर्षकव्यवस्थायाः च जानकारी प्राप्ता।
अस्मिन् प्रसङ्गे मुख्यमन्त्री डॉ. यादवः अवदत्— “प्रदेशे पर्यटनाय नूतनां पहचानं दातुं सरकारः निरन्तरं कार्यं करोति। चम्बलनदीक्षेत्रे विकसिताः पर्यटन-गतिविधयः केवलं स्थानीयस्तरे रोजगारं सृजिष्यन्ति न, अपि तु देश-विदेशेभ्यः आगच्छतां पर्यटकानां कृते विशेष-आकर्षणकेंद्रं भविष्यन्ति।”
---------------
हिन्दुस्थान समाचार