Enter your Email Address to subscribe to our newsletters
गोरखपुरम्, १४ सितम्बरमासः (हि.स.)। गोरखपुरप्रान्तस्य योजनासभा अद्य गोरखपुरकार्यालये सम्पन्ना। अस्मिन् सभासम्मिलने क्षेत्र-संगठनमन्त्री नागेन्द्रः, प्रान्त-संगठनमन्त्री राजेशः सिंह, विभाग-संगठनमन्त्री निखिलः, जिलागोरखपुरमन्त्री अभियन्ता संजीतकुमारः च सन्निहिताः आसन्।
अस्मिन्नेव अवसर अरविन्दकुमारः पाण्डेयः जिलासह-मन्त्रीरूपेण, बालकृष्णः पाण्डेयः प्रेमचन्द्रनगरस्य प्रखण्डाध्यक्षरूपेण च विश्वहिन्दुपरिषदि नियुक्तौ।
एतयोः आगमनेन विश्वहिन्दुपरिषदः अधिकं दृढं भविष्यति इति सर्वे प्रबुद्धाः पदाधिकारीणः उक्तवन्तः।
अस्य नियुक्त्याः घोषणायां परिषदः सर्वे पदाधिकारीणः कार्यकर्तारश्च हर्षं प्रकटितवन्तः। अस्य महत्वपूर्णनियुक्तेः सन्दर्भे जिलातः आरभ्य पूर्वाञ्चलप्रदेशे स्थिताः सर्वे केन्द्रीय-मन्त्रिणः, क्षेत्रीय-सांसदाः, क्षेत्रीय-विधायका: च, तदा क्षेत्रीय-पदाधिकारीणः सक्रिय-कार्यकर्तारश्च अभिनन्दनानि शुभाशंसाश्च दत्तवन्तः।
एषा सूचना क्षेत्र-संगठनमन्त्री नागेन्द्रः, प्रान्त-संगठनमन्त्री राजेशः, विभाग-संगठनमन्त्री निखिलः, जिलागोरखपुरमन्त्री अभियन्ता संजीतकुमारः श्रीवास्तवः च प्रदत्तवन्तः।
---------------
हिन्दुस्थान समाचार