मध्यप्रदेशमुख्यमन्त्रिणा डॉ. मोहनयादवेण भारतीयमहिला-हॉकी-दलाय रजतपदकलाभे वर्धनपनानि प्रदत्तानि
भोपालम्, १४ सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः रविवासरे चीनदेशस्य हाङ्जौ-नगरे सम्पन्ने महिला-एशियाकप् २०२५ स्पर्धायां भारतीयमहिला-हॉकी-दलेन रजतपदकं जिते बधाईः शुभाशंसाः च अर्पितवान्। मुख्यमन्त्रिणा सामाजिकमाध्यमे एक्स् इत्
महिला एशिया कप 2025 में भारतीय महिला हॉकी टीम


भोपालम्, १४ सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः रविवासरे चीनदेशस्य हाङ्जौ-नगरे सम्पन्ने महिला-एशियाकप् २०२५ स्पर्धायां भारतीयमहिला-हॉकी-दलेन रजतपदकं जिते बधाईः शुभाशंसाः च अर्पितवान्।

मुख्यमन्त्रिणा सामाजिकमाध्यमे एक्स् इत्यस्मिन् लिखितं यत् एषा गौरवशालिनी उपलब्धिः दलभावस्य दृढसंकल्पस्य च प्रतीकः। भारतीयाभ्यः कन्याभ्यः मातृभूमेः गौरवं वर्धितम् इति सः अवदत्।

अधुना सम्पूर्णः भारतः महिला-हॉकी-दले गर्वं अनुभवति इति मुख्यमन्त्री अभ्यधात्। सः सर्वेषां खिलाडीनां स्वर्णिमभविष्याय मंगलकामनाः अपि दत्तवान्।

हिन्दुस्थान समाचार