Enter your Email Address to subscribe to our newsletters
जबलपुरम्, १४ सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य लोकनिर्माणमन्त्री राकेशसिंह उक्तवान् यत् मुख्यमन्त्री डॉ. मोहनयादवस्य मुख्यातिथ्ये अभियन्तादिवसस्य भव्यं गरिमामयं च आयोजनं सोमवासरे १५ सितम्बर प्रातः ११ वादने भोपालस्थिते कुशाभाऊ ठाकरे सभागारे भविष्यति। एषः दिवसः महानभियन्तुः भारतरत्न–सम्मानितस्य सर् मोक्षगुण्डं विश्वेश्वरय्यस्य जयन्त्यै समर्पितः। तेन स्वदूरदृष्ट्या, अभूतपूर्वतन्त्रकौशलस्य च माध्यमेन भारतस्य अभियान्त्रिकी नूतनां दिशां प्राप्तवती।
मन्त्री सिंह अवदत् यत् सर् मोक्षगुण्डं विश्वेश्वरय्यः नित्यं भारतीयाभियन्तृसमाजस्य मार्गदर्शकः भविष्यति। तस्य योगदानात् न केवलं देशः विश्वस्तरीयम् अभियान्त्रिकीदृष्टिकोणं प्राप्तवान्, अपि तु तेन तन्त्रज्ञानं विकासस्य जनकल्याणस्य च सशक्तं माध्यमं कृतम्। सः १९५५ तमे वर्षे भारतरत्न इत्यनेन सम्मानितः, यः तस्य अतुलनीयकार्याणां मान्यता आसीत्।
मन्त्री सिंह रविवासरे भोपालनगरस्य कुशाभाऊ ठाकरे सभागारं परिभ्रम्य अभियन्तादिवसस्य कार्यक्रमस्य सज्जतायाः निरीक्षणं कृतवान्। तेन सह अधिकारीणां बैठकं कृत्वा, कार्यक्रमः सुयोजितरूपेण सम्पन्नः भवेत् इति विविधाः निर्देशाः दत्ताः। अस्मिन् समये एम्.डी. एम्.पी.आर्.डी.सी. भरत्यादवः, प्रमुखाभियन्ता के.पी.एस्. राणा, तन्त्रिकसल्लाहकारः आर्.के. मेहरा, मुख्याभियन्ता संजयमस्के च उपस्थिताः आसन्।
तेन उक्तम् – “लोकनिर्माणविभागेन ‘लोकनिर्माणेन लोककल्याणम्’ इति संकल्पः स्वीकृतः अस्ति। अभियन्तादिवसस्य आयोजनं अस्य एव संकल्पस्य प्रतीकः भविष्यति, यस्मिन् विभागस्य तन्त्रिकप्रगति, पारदर्शिता, नवाचारः च प्रदर्शितः भविष्यति।”
सः अवदत् – “मध्यप्रदेशस्य प्रगतिः दृढे आधुनिके च आधारभूतसंरचने अवलम्बिता अस्ति, यस्य दिशां गतिं च अस्माकं अभियन्तारः निश्चितवन्तः। सड़काः, सेतवः, फ्लायओवरः, रिङ्ग्–रोडः, बायपासः, स्मार्ट् ट्राफिक्–सिस्टम् इत्यादीनि निर्माणकार्यानि प्रदेशस्य अर्थव्यवस्थां गमयन्ति, नागरिकानां जीवनं च सुगमं कुर्वन्ति। अभियन्तॄणां तन्त्रिकदक्षता योजनाबद्धकार्यशैली च केवलं परिवहन–संपर्कव्यवस्थां न सुधारयति, अपि तु उद्योगं, व्यापारं, पर्यटनं च नूतनैः शिखरैः योजयति।”
तेन उक्तम् – “प्रदेशे प्रत्येकं गुणवत्तायुक्तं मार्गं, प्रत्येकः सुदृढः सेतुः च अभियन्तॄणां श्रमस्य संकल्पस्य च प्रमाणम्। एषः ‘लोकनिर्माणेन लोककल्याणम्’ इति दिशायां प्रदेशं अग्रे गमयति। प्रथमवारं विभागस्य इतिहासे ते अभियन्तारः संविदाकाराश्च सम्मानं प्राप्स्यन्ति, ये समर्पणेन उत्कृष्टकार्येण च विभागस्य साख्यं गुणवत्तां च उन्नीतवन्तः। एषः सम्मानः केवलं व्यक्तीनां न भविष्यति, अपि तु विभागस्य समर्पितकार्यसंस्कृतेः अपि।”
मन्त्री सिंह उक्तवान् – “अस्मिन् अवसरः द्वौ महत्त्वपूर्णौ डिजिटल्–प्लेट्फोर्मौ अपि आरब्धौ भविष्यतः – ‘लोकनिर्माणसर्वेक्षण–ऐप्’ तथा ‘लोकपरियोजनाप्रबन्धन–प्रणाली’। ‘लोकनिर्माणसर्वेक्षण–ऐप्’ नामकः वास्तविकसमये निर्माणकार्यानां निरीक्षणं, गुणनिश्चितिः च करिष्यति। ‘लोकपरियोजनाप्रबन्धन–प्रणाली’ तु योजनानां प्रगति, बजटप्रबन्धनं, जवाबदेही च दृढं करिष्यति। अस्मिन्नेव अवसरः विभागस्य न्यूज्–लेटरस्य विमोचनं भविष्यति, यस्मिन् विभागस्य उपलब्धयः, योजनाः, नवाचाराः च विस्तृतरूपेण प्रदर्शिताः भविष्यन्ति।”
हिन्दुस्थान समाचार