16 दिवसीयस्य सोरहिया मेलापकस्य समापनोत्तरं लक्ष्मीकुंडे स्वच्छताभियानं, मां लक्ष्‍म्याः विहिता आरती
नमामि गंगेद्वारा काश्याः पौराणिक कुंडान्- तडागान्- पोखर इत्येतान् - सरोवरान् संरक्षितान् कर्तुं विहितम् आवाह्नम् वाराणसी,15 सितम्बरमासः (हि.स.)।उत्तरप्रदेशे वाराणस्यां षोडशदिनात्मके सोरहियामेले समाप्ते सोमवासरे लक्ष्मीकुण्डे “नमामि गङ्गे”–संघटनस्य न
स्वच्छता अभियान में जुटी टीम


नमामि गंगेद्वारा काश्याः पौराणिक कुंडान्- तडागान्- पोखर इत्येतान् - सरोवरान् संरक्षितान् कर्तुं विहितम् आवाह्नम्

वाराणसी,15 सितम्बरमासः (हि.स.)।उत्तरप्रदेशे वाराणस्यां षोडशदिनात्मके सोरहियामेले समाप्ते सोमवासरे लक्ष्मीकुण्डे “नमामि गङ्गे”–संघटनस्य नगरनिगमकर्मचारिणां च द्वारा स्वच्छतायाः अभियानं प्रवर्तितम्। अस्मिन् अभियाने मध्ये काश्याः पौराणिककुण्डतालाबानां संरक्षणाय अपि आह्वानं कृतम्। कार्यकर्तारः कर्मचारीणश्च लक्ष्मीकुण्डे सञ्चितां मलिनतां अपसार्य सामाजिककर्तव्यानि निरवर्तयन्।

तस्मिन्नेव काले पितृपक्षस्य मातृनवम्यां आत्मनिर्भरभारतस्य प्रार्थनया माता लक्ष्म्याः आरती कृत्वा श्रीसमृद्धेः कामना कृता। ततः जीवित्पुत्रिकाव्रतस्य तथा सोरहियामेलस्य परं लक्ष्मीकुण्डे विहितानि निर्माल्य–सामग्रीणि सञ्चित्य नगरनिगमस्य कूड़कायां निक्षिप्तानि। भक्तजनैः उपेक्षिताः पॉलिथीनपत्रिकाः, रासायनिकमूर्तयः, अन्याः मलिनताश्च कुण्डपरिसरात् निष्कासिताः। लक्ष्मीकुण्डस्य समीपे नगरनिगमकर्मचारिभिः सह स्वच्छताकार्यं कृतम्।

“नमामि गङ्गे”–संघटनस्य राजेशशुक्लेन अवदत् –

“सनातनीसंस्कृतेः जन्ममरणपर्यन्तं सर्वे संस्काराः पवित्रनद्यः कुण्डाः तालाबाः पोखराः सरोवराश्च इत्येषु तीरेषु एव सम्पन्नाः। अस्माकं जीवनमध्ये जलस्य महत्त्वं विज्ञाय स्वच्छतायाः दायित्वं स्वयं निर्वर्तयितव्यम्। पवित्रनद्यः जलाशयेषु धार्मिक–सांस्कृतिकानां आयोजनेषु शेषाणि निर्माल्य–सामग्रीणि न त्यक्तव्यानि, यतः तेषां तटेषु मलिनस्य सञ्चयः न भवेत्।”

अस्मिन् अभियाने नगरनिगमपर्यवेक्षकः विक्की कुमारः, अमितकुमारश्च सन्निहितौ आस्ताम्।

---------------

हिन्दुस्थान समाचार