चिन्ता मास्तु, उपचाराय सरकारः सहाय्यं करिष्यति - मुख्यमन्त्री
लखनऊनगरम्, 15 सितम्बरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे स्वस्य राजकीयनिवासे जनता-दर्शनम् अकरोत्। तस्मिन् समये प्रदेशात् आगतानां सर्वेषां पीडितानां समीपम् उपसृत्य तेषां निवेदनानि श्रुत्वा समाधानस्य आश्वासनं दत्तवान्। जनता-दर्शनम् इत्य
जनता दर्शन में लोगों की समस्याएं सुनते सीएम योगी


लखनऊनगरम्, 15 सितम्बरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे स्वस्य राजकीयनिवासे जनता-दर्शनम् अकरोत्। तस्मिन् समये प्रदेशात् आगतानां सर्वेषां पीडितानां समीपम् उपसृत्य तेषां निवेदनानि श्रुत्वा समाधानस्य आश्वासनं दत्तवान्। जनता-दर्शनम् इत्यस्मिन् 50 अधिकाः जनाः स्वीयं निवेदनं कृत्वा आगताः। रायबरेली-जनपदात् आगतं किड्नी-हृदय-रुग्णं मुख्यमंत्री योगी आदित्यनाथः चिकित्सालये प्रविष्टुं निर्देशं दत्तवान्।

किड्नी-हृदय-रुग्णः चिकित्सालयं प्रेषितः

जनता-दर्शनमध्ये रायबरेली-जनपदस्य खीरो-थाने अन्तर्गतं बरवलिया-ग्रामात् एकः युवकः अपि आगतः। सः मुख्यमन्त्रिणे प्रार्थना-पत्रं दत्वा अवदत् यत् तस्य पितरौ किड्नी-हृदय-यूरिन्-रोगेण पीड्येते।समीपस्थ-चिकित्सालये उपचारं कर्तुं वित्तसमस्या जायते। एतत् श्रुत्वा मुख्यमन्त्री योगी आदित्यनाथः तं चिकित्सालये शीघ्रं प्रवेशयितुं निर्देशं दत्तवान्। तथा उपचारार्थं चिकित्सालयात् estimate (व्यय-निर्धारणपत्रम्) अपि आनयितुं उक्तवान्।

सर्वेभ्यः आवश्यकेभ्यः उपचारार्थं वित्तसहाय्यं निरन्तरं दत्तम्

जनता-दर्शनमध्ये बहवः जनाः उपचारार्थं वित्तसहाय्याय प्रार्थना-पत्रं दत्तवन्तः। एतत् श्रुत्वा मुख्यमन्त्री योगी आदित्यनाथः अवदत् — “सरकारः सर्वेभ्यः आवश्यकेभ्यः रुग्णेभ्यः उपचारार्थं वित्तसहाय्यं प्रदात्तुं प्रवृत्ता अस्ति। भवन्तः अपि चिकित्सालयात् व्ययपत्रम् निर्माप्य प्रेषयन्तु। भवतः उपचार-व्ययस्य चिन्ता सर्वकारः करिष्यति। 8 वर्षेभ्यः पूर्वं यावत् सर्वकारः सर्वेभ्यः आवश्यकेभ्यः निरन्तरं वित्तसहाय्यं दत्तवती अस्ति।”

बालकान् अपि स्नेहेन लालयत्, चॉकलेहं दत्तवा‌न्

जनता-दर्शनमध्ये केचन जनाः बालकैः सह आगताः। मुख्यमन्त्री योगी आदित्यनाथः तान् बालकान् स्नेहेन लालयामास। बालकानां शिरसि हस्तं स्थापयित्वा अपनत्वस्य भावं दत्तवान्। सर्वेषां बालकानां च चॉकलेहं-टॉफ़ीं च प्रदत्तवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता