Enter your Email Address to subscribe to our newsletters
भोपालम्, 15 सितम्बरमासः (हि.स.)। राष्ट्रनिर्माणे भाषानां योगदानं केन्द्रीकृत्य भारतीयमातृभाषाअनुष्ठानस्य अन्तर्गतं राष्ट्रियहिन्द्यलंकरणसमारोहः अद्य सोमवासरे सायं 5 वादने भोपालस्य रविन्द्रभवने आयोजितः भविष्यति। कार्यक्रमस्य मुख्यातिथिः मुख्यमन्त्री डॉ॰ मोहनयादवः भविष्यति। विज्ञानक्षेत्रे अन्येषु च क्षेत्रेषु हिन्दीभाषायाः योगदानं प्रति दत्तानि राष्ट्रियहिन्दीभाषासम्मानानि वितरिष्यन्ति।
वीरभारतन्यासस्य संस्कृतिविभागस्य न्यासीसचिवः श्रीरामतिवारी इत्युक्तवान् यत् अस्मिन् कार्यक्रमे राष्ट्रियहिन्दीभाषासम्मानलंकरणेन विभूषिताः देशस्य अग्रणीमनीषिणः मुख्यमन्त्रिणा सम्मानिताः भविष्यन्ति। कार्यक्रमस्य अध्यक्षता संस्कृतिराज्यमन्त्री (स्वतन्त्रप्रभार) धर्मेन्द्रसिंहः लोधी करिष्यति। अस्मिन् अवसरे विविधप्रकाशनानां लोकार्पणं, स्वदेशीजागरणस्य अन्तर्गतं देशहिते “We Indian, Buy Indian, हमारी-लक्ष्मी–हमारे पास” इत्यस्य अभियानस्य च शुभारम्भः भविष्यति।
मुख्यमन्त्रिणं प्रति गोल्ड-अवार्डः प्रदास्यतेमहाराजविक्रमादित्यशोधपीठेन आयोज्यमानः विक्रमोत्सवः 2025 तमे एशियादेशीयशासकीयसमारोहनां विशेषश्रेण्यां गोल्ड-अवार्ड् नामकं WOW Award Asia इति दलस्य द्वारा मुख्यमन्त्री डॉ॰ मोहनयादवाय प्रदास्यते।
एते सम्मानिताः भविष्यन्ति —
राष्ट्रीयसूचनाप्रौद्योगिकीसम्मानः — प्रशान्तः पोळ (जबलपुर), लोकेन्द्रसिंहराजपूतः (भोपालम्)
राष्ट्रीयनिर्मलवर्मासम्मानः — रीता कौशल (ऑस्ट्रेलिया), डॉ॰ वन्दना मुकेश (इङ्ग्लैण्ड)
राष्ट्रीयफादरकामिल्बुल्केसम्मानः — डॉ॰ इन्दिरा गाजिएवा (रूस्), पद्मा जोसेफिन् वीरसिंघे (श्रीलङ्का)
राष्ट्रीयगुणाकरमूलेसम्मानः — डॉ॰ राधेश्यामनापितः (शहडोल), डॉ॰ सदानन्ददामोदरः सप्रे (भोपालम्)
राष्ट्रीयहिन्दीसंविधानसम्मानः — डॉ॰ के.सी. अजयकुमारः (तिरुवनन्तपुरम्), डॉ॰ विनोदबब्बरः (देहली)।
हिन्दुस्थान समाचार / अंशु गुप्ता