Enter your Email Address to subscribe to our newsletters
देहरादूनम्, 15 सितंबरमासः (हि.स.)।वातावरणविज्ञानविभागेन सोमवासरे अपि राज्यस्य देहरादून–बागेश्वर–चम्पावत्–उधमसिंहनगर–पिथौरागढ–नैनीताल–जिलासु अत्यधिकवृष्टेः “काञ्चनवर्णसङ्केतः” प्रकाशितः। राज्यस्य अन्येषु शेष–जिलेषु कतिपयस्थानेषु तीव्रवृष्टेः “पीतवर्णसङ्केतः” दत्तः।
स्थानिकवातावरणविभागकेन्द्रस्य सूचनानुसारं 20 सितम्बरपर्यन्तं राज्ये तीव्रवृष्टेः सम्भावना अस्ति। वर्षाचेतावनीं दृष्ट्वा राज्यआपदाप्रबन्धनप्राधिकरणेन सर्वेषां जिलानां प्रशासनं सतर्कतां पालनाय आदेशाः दत्ताः।
मुख्यमन्त्री पुष्करसिंहधामी अवदत् यत् – मानसूनकाले क्षतिग्रस्तासु मार्गेषु यातायातोपयोग्यं पुनर्निर्माणं शीघ्रं आरभ्यताम्, अन्याः सेवाः अपि शीघ्रं सुचारुरूपेण प्रवर्तयन्ताम् इति निर्देशाः प्रदत्ताः।
हिन्दुस्थान समाचार