Enter your Email Address to subscribe to our newsletters
वाराणसी, 15 सितम्बरमासः (हि. स.)।उत्तरप्रदेशलघुउद्योगनिगमस्य उपाध्यक्षः नटवरगोयलः अवदत् यत् स्वर्गीयः बाबूजी श्यामलालयादवस्य नवतिनवमः जन्मदिनः पावनावसरः अस्ति। तेषां व्यक्तित्वं कृतित्वं च नमामि। बाबूजी सदा समाजस्य वञ्चित–शोषित–दुर्बलवर्गस्य स्वरूपेण स्थितवन्तः। तेषां संघर्षाः योगदानं च सामाजिकन्यायस्य दीपं प्रज्वलितवन्तौ, यः अद्यापि अस्माकं सर्वेषां प्रेरणास्रोतः अस्ति।”
वाराणस्यां समतलीयप्रदेशे पराडकरभवने स्थिते गर्देसभागारे आयोजिते स्वर्गीयस्य बाबूजी श्यामलालजयंतीसमारोहे मुख्यवक्ता आसन् नटवरगोयलः। दीपप्रज्वलनं कृत्वा समारोहस्य आरम्भः अभवत्। समारेहे स्वर्गीयबाबूजीं पुष्पाञ्जलिं समर्प्य श्रद्धापूर्वकं स्मृतवन्तः, उपस्थितगणमान्यजनान् सम्बोधित्य तेषां आदर्शान् अनुसरणं कर्तुम् अङ्गीकृतवन्तः।
नटवरगोयलः अवदत् –
“श्रद्धेयः बाबूजी जन्मतिथौ शतशः प्रणम्यन्ते। वाराणस्यः प्रबुद्धवर्गः तान् स्नेहेन ‘बाबूजी’ इति आह। तस्मात् यः कश्चन तान् जानाति, सः अद्यापि ‘बाबूजी’ इत्येव वदति। तेषां जीवनकाले बहवः क्लेशाः आसन्, तथापि शिक्षायाः रोजगारस्य च विषये निरन्तरं चिन्ता आसीत्। दरिद्रः शिक्षा लभेत, बेरोजगारः जीविकां प्राप्नुयात् – एतदर्थं बाबूजी नित्यं मननं कुर्वन्ति स्म।”
---------------
हिन्दुस्थान समाचार