भारतीय युवक संघः एकवारं कंबोडियायाः अंकोरवाट मंदिरस्य निर्माति पंडालम्
रांची, 15 सितंबरमासः (हि.स.)।झारखण्डराज्यस्य विविधानि जिलानि दुर्गापूजायाः कृते प्रचण्डेन उत्साहेन सज्जानि भवन्ति। अस्य वर्षस्य दुर्गोत्सवः 22 सितम्बरतः आरभ्यते, यस्य विशेषतां प्रदर्शयितुं पूजासमितयः निरन्तरं प्रयत्नशीलाः सन्ति। राजधानी राञ्च्यां एकस
पंडाल की फाइल फोटो


रांची, 15 सितंबरमासः (हि.स.)।झारखण्डराज्यस्य विविधानि जिलानि दुर्गापूजायाः कृते प्रचण्डेन उत्साहेन सज्जानि भवन्ति। अस्य वर्षस्य दुर्गोत्सवः 22 सितम्बरतः आरभ्यते, यस्य विशेषतां प्रदर्शयितुं पूजासमितयः निरन्तरं प्रयत्नशीलाः सन्ति। राजधानी राञ्च्यां एकस्मात् एकः उत्कृष्ठः पूजामण्डपः निर्माणे प्रवर्तमानः।

तत्रैव राञ्च्याः अपरबाजारे बकरीबाजारप्रदेशे भारतीययुवकसंघः अस्य वर्षे मण्डपं कम्बोडियायाः प्रसिद्धम् “अङ्कोरवाट्” मन्दिरम् अनुकरणरूपेण निर्माति। दुर्गापूजायाः उत्सवकाले अयं मण्डपः दर्शकानां विशेषतया आकर्षणं करिष्यति। अतीवाधुनिकदीपप्रभायाः उपयोगः भविष्यति। मण्डपे विशेषा नक्काशिः अपि भक्तानां दृष्टौ आगमिष्यति।

बकरीबाजार–भारतीययुवकसंघस्य अध्यक्षः राहुल अग्रवालः सोमवासरे सूचितवान् यत् – मण्डपस्य निर्माणं 14,400 वर्गफुटप्रदेशे प्रवर्तमानम्। निर्माणव्ययः सत्तरलक्षरूप्यकाणि। मण्डपस्य उच्चता 110 फूट् भविष्यति। निर्माणे प्राकृतिकानि द्रव्याणि – पाठकाठी, मलाईकाठी, होगलापत्रम्, तालपत्रम्, बुलेनरस्सी, त्रिपुरामैट्, मदुरकाठी इत्यादीनि प्रयुज्यन्ते। उद्घाटनं 26 सितम्बरदिने भविष्यति।

मण्डपस्य अन्तराले मातुः भव्यप्रतिमा अन्यदेवदेवताप्रतिमाभिः सहितं स्थाप्यते। प्रतिमायाः निर्माणव्ययः चत्वारि लक्षरूप्यकाणि। प्रतिमायाः उच्चता 26 फूट् भविष्यति। अस्य वर्षस्य प्रतिमायाः आभरणानि प्राकृतिकानि एव भविष्यन्ति। पूजापरिसरे मेलायां विविधाः पक्वान्नदुकानाः झूला–क्रीडायन्त्राणि, क्रीडनकानि च स्थाप्यन्ते।

पूजायाः सफलतायै उपाध्यक्षः मदनबगडिया, *अरविन्दचौधरी, रमेशअग्रवाल, अमरपोददार, मुकेशजालान, सचिवः रविराहोत्गी, सहसचिवः किशनमोदी, कमलजालान् (बंकट्), राजेशबुधिया, पवनजालान, विकासअग्रवालः, सिद्धान्ततोदी, विवेकअग्रवालः, मनीषअडूकिया, अमितसोनी, कोषाध्यक्षः सत्येन्द्रजालन (मण्टू), सहकोषाध्यक्षौ संजयचौधरी–ललितसोढाणी, प्रवक्ता अमितप्रकाशबजाजः, सहप्रवक्ता सौरभचौधरी–दीपकगोयंका–दीपकचौधरी इत्यादयः अन्ये च निरन्तरं प्रवृत्ताः। विशेषतया उल्लेखनीयम् यत् अत्र सन् 1958 तः निरन्तरं भव्यं दुर्गापूजाउत्सवः आयोज्यते।

---------------

हिन्दुस्थान समाचार