Enter your Email Address to subscribe to our newsletters
योगी-शासनं महामार्ग-विमान-सम्बद्धता-क्षेत्रे विशालं अधिसंरचनां निर्माति
अत्यधिक-एक्सप्रेसमार्गैः सह उत्तरप्रदेशः भविष्यति वाह्य-नियोजनकेन्द्रम् (लॉजिस्टिक-हब)।
लखनऊनगरम्, 15 सितंबरमासः (हि.स.)। उत्तरप्रदेशे परिवहन–सम्बद्धतायाः अद्भुतः विकासः।
मुख्यमन्त्रिणः योगी आदित्यनाथस्य नेतृत्वे उत्तरप्रदेशः “विकसित यूपी @2047”इति दृष्टिपथेन गच्छन् परिवहन–कूटजालस्य क्रान्तिकारीं प्रगत्यां साक्षीभवति। अतीतान्यष्टार्धवर्षेषु महामार्गेषु, एक्स्प्रेसमार्गेषु, विमानपरिवहन–क्षेत्रे च प्राप्ता तीव्रा प्रगति न केवलं प्रदेशस्य गतिं वर्धितवती, अपि तु तं राष्ट्र–अन्तर्राष्ट्रीयनिवेश–विकासस्य नूतनं केन्द्रं कृतवती।
२०१७ पूर्वं मंदगति – सीमितानि साधनानि
राज्यप्रवक्त्रा निगदितम्—२०१७ पूर्वं उत्तरप्रदेशे सड़क–विमान–अवसंरचना–विकासः अतीव मन्दः आसीत्। प्रधानमंत्री–ग्राम–सड़क–योजनान्तर्गतं सड़क–लम्बता २०१३–१४ मध्ये ५१,५४९ कि.मी. आसीत् या २०१६–१७ पर्यन्तं केवलं ५६,८४६ कि.मी. जाता। विमान–यात्रिणां संख्या १९९९–२०१६ मध्ये केवलं ५५ लक्षाणि वर्धिता। तस्मिन् काले त्रयः एव एक्स्प्रेसमार्गाः, विरलानि च विमानतलानि आसन्।
२०१७ परं – भूमेः आकाशं प्रति नूतना उड्डानम्
योगी–शासनात् अनन्तरं समन्वित–दृष्ट्या स्थलमार्ग–विमान–जलपरिवहन–क्षेत्रेषु प्रामाणिकक्रियाः कृता। ग्राम–सड़क–योजनया २०२४–२५ पर्यन्तं सड़क–लम्बता ७७,४२५ कि.मी. प्राप्ता। एक्स्प्रेसमार्ग–जाले उत्तरप्रदेशः अग्रणी जातः, २२ एक्स्प्रेसमार्गाणां महायोजना प्रवर्तमानः। विमानक्षेत्रेऽपि प्रदेशः १२ आन्तरिक, ४ अन्तर्राष्ट्रीय विमानतलैः युक्तः जातः।
“एक्स्प्रेसवे–प्रदेशः” उत्तरप्रदेशः।
१९४९–५० मध्ये यत्र कोऽपि एक्स्प्रेसमार्गः नासीत्, २०१६–१७ मध्ये केवलं त्रयः आसन्। अद्य २०२५–२६ मध्ये एते २२ जाताः। पूर्वाञ्चल, बुन्देलखण्ड, यमुनायाः, आग्र–लखनऊ, गोरखपुर–लिङ्क एक्स्प्रेसमार्गाः आन्तरिक–सम्बद्धतां वर्धयन्ति तथा च लॉजिस्टिक–केन्द्ररूपेण प्रदेशस्य स्थानं दृढयन्ति।
प्रमुखाः निर्माणाधीनाः मार्गाः।
गङ्गा–एक्स्प्रेसमार्गः, चित्रकूट–लिङ्क, लखनऊ–लिङ्क, फर्रुखाबाद–लिङ्क, जेवर–लिङ्क, झांसी–लिङ्क, विंध्य–एक्स्प्रेसमार्गः, विंध्य–पूर्वाञ्चल–लिङ्क, मेरठ–हरिद्वार–लिङ्क, चित्रकूट–रीवा–लिङ्क इत्यादयः शीघ्रं प्रदेशं उत्तरभारतेऽत्यन्तं संलग्नं करिष्यन्ति।
राष्ट्रीयराजमार्गविस्तारः
२००४–०५ मध्ये ५,५९९ कि.मी. आसीत्, २०२३–२४ मध्ये १२,२९२ कि.मी. जातम्। एषः दोगुण–विस्तारः व्यापारं, उद्योगं, माल–परिवहनं च नूतनया गत्या अन्वितवान्।
विमान–सम्बद्धतायाः क्रान्तिः
१९५० मध्ये यत्र एकः अपि विमानतलः नासीत्, तत्र २०२५ पर्यन्तं १६ विमानतलानि (५ निर्माणाधीनानि) प्रचलन्ति। जेवर–अन्तर्राष्ट्रीय–विमानतलः एशियायाः महत्तमेषु गण्यते, कार्गो–ट्रांजिट–केंद्ररूपेण उत्तरप्रदेशाय नूतनां कीर्तिं दास्यति।
विमान–यात्रिणां वृद्धिः
२०१७ पूर्वं १७ वर्षेषु केवलं ५५ लक्षाणि वर्धिता। किन्तु अष्टवर्षेषु ८२ लक्षाणि वर्धिता। २०२५ मध्ये १.४२ कोटि–यात्रिकाः अनुमान्यन्ते।
भविष्यदृष्टिः २०३० पर्यन्तम्।
पूर्वपश्चिमसम्बद्धता सुदृढीकृतायाम्, अद्य योगी–शासनं दक्षिण–उत्तर–सम्बद्धतायाः महाजालं २०३० पर्यन्तं स्थापयितुं संकल्पितम्। सर्वजनपदमुख्यालयाः एक्स्प्रेसमार्गैः सम्बद्धयितुं, नेपाल–सीमान्ते ट्रांजिट–हब विकसितुं, पर्यटन–स्थलेषु रोपवे निर्मातुं च योजना।
विजन 2047 : एकं मण्डलम्–एकः विमानतलः
सरकारस्य लक्ष्यं—सर्वेषु मण्डलेषु २०४७ पर्यन्तं एकः विश्वस्तरीय–विमानतलः। सर्वे ७५ जिल्हाः एक्स्प्रेसमार्गैः, विमान–सम्बद्धतया च योज्यन्ते। ग्रीन–स्मार्ट–हाइवे, एयर–कार्गो–हब, हेलिपोर्ट्, आधुनिक–एविएशन–इकोसिस्टमेन च उत्तरप्रदेशः वैश्विकसम्बद्धता–केन्द्रम् रूपेण स्थापितः भविष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता