Enter your Email Address to subscribe to our newsletters
लखनऊनगरम्, 15 सितम्बरमासः (हि.स.)। समाजकल्याणविभागस्य राज्यमन्त्रिणा (स्वतन्त्रप्रभारः) असीमारुणेन सोमवासरे उक्तं यत् समाजस्य वञ्चितवर्गाणां प्रतिभाशालीविद्यार्थिभ्यः अद्य विदेशे उच्चशिक्षायाः स्वप्नं पूर्णं कर्तुं अवसरः प्राप्तः।
सामाजिकन्याय-अधिकारितामन्त्रालयेन राष्ट्रीय-विदेश-छात्रवृत्ति-योजनायाः अन्तर्गतं चयनवर्षे २०२५-२६ कृते आवेदनानि आमन्त्रितानि। अस्याः योजनायाः लक्ष्यं यत् अनुसूचितजातयः, घुमन्तवः, अर्ध-घुमन्तवः जनजातयः, भूमिहीनकृषिश्रमिकाः, पारम्परिक-शिल्पिककुटुम्बानि च – एषां आर्थिकरूपेण दुर्बलानां छात्राणां विदेशस्थेषु शीर्ष-५०० विश्वविद्यालयेषु संस्थानेषु च परास्नातक-पीएचडीस्तरे अध्ययनाय वित्तीयसहाय्यं प्रदातुं।
समाजकल्याणविभागस्य उपनिदेशकः ए.के.सिंहनामकः उक्तवान् यत् आवेदनप्रक्रिया सोमवासरादारभ्य प्रवृत्ता या २४ अक्टूबरपर्यन्तं एन.ओ.एस्. प्रवेशद्वार (https://nosmsje.gov.in
) इत्यत्र प्रवर्तिष्यते। पूर्वमेव आवेदनं कृतवन्तः अभ्यर्थिनः २६ तः २९ अक्टूबरपर्यन्तं संशोधनं कर्तुं शक्नुयुः। छात्रवृत्त्याः कृते ३० प्रतिशतस्थानानि महिलानां कृते आरक्षितानि। विभागेन पात्रेभ्यः छात्रेभ्यः आह्वानं कृतं यत् ते एतस्मात् अवसरात् अधिकतमलाभं गृह्णीयुः।
अस्याः योजनायाः लाभं प्राप्नुतां छात्राणां स्नातकपरीक्षायां न्यूनतमं ६० प्रतिशताङ्काः अनिवार्याः। अभ्यर्थिनः अधिकतमवयः ३५ वर्षाणि भविष्यति। पारिवारिकवार्षिक-आयः ८ लक्षरूप्यकाणि अतिवर्तितुं न अर्हति। चयनितेभ्यः छात्रेभ्यः शिक्षाशुल्कं, जीवनयापनव्ययः, पुस्तक-शोधकार्यार्थं भृत्यं, विदेशयात्रायाः मूल्यं, स्वास्थ्यबीमायाः च सुविधाः प्रदास्यन्ते। एषा योजना विकसितभारत २०४७ इति लक्ष्यस्य दिशि महत्वपूर्णं पादक्रमः अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता