Enter your Email Address to subscribe to our newsletters
मुंबई, 15 सितंबरमासः (हि.स.)।
गुजरातस्य राज्यपालः आचार्यदेवव्रतः सोमवासरे महाराष्ट्रस्य राज्यपालस्य अतिरिक्तभारं स्वीकृतवान्। राजभवने आयोजिते समारोहः तेन संस्कृतभाषायामेव शपथः स्वीकृतः। राजभवनस्य दरबार-हॉल्-नाम्नि स्थले बॉम्बे-उच्चन्यायालयस्य मुख्यन्यायाधीशः चन्द्रशेखरः तस्मै पद-शपथं दत्तवान्।
मुंबईस्थिते राजभवने अद्य शपथग्रहण-समारोहो जातः। अस्मिन् अवसरि विधानपरिषदस्य सभापतिः प्रो.रामशिन्दे, विधायनसभायाः अध्यक्षः अड्वोकेट्-राहुल-नार्वेकरः, विधानपरिषदस्य उपसभापतिः डॉ.नीलम्-गोरहे, कौशलविकास-उद्यमिता-रोजगार-नवोन्मेषमन्त्री मंगलप्रभात-लोढा, सहकारितामन्त्री बाबासाहेब-पाटिलः, क्रीडामन्त्री माणिकराव-कोकाटे, मुख्यसचिवः राजेशकुमारः, अतिरिक्तमुख्यसचिवः (प्रक्रिया) मनीषा-म्हैसकरः, अन्ये वरिष्ठाः अधिकारीणश्च उपस्थिताः आसन्।
शपथग्रहणसमारोहस्य अनन्तरं मुख्यमन्त्री देवेंद्रफडणवीसः, उपमुख्यमन्त्री एकनाथशिन्दे च राज्यपालं देवव्रतम् अभिनन्द्य पुष्पगुच्छं प्रदत्तवन्तौ।
मुख्यसचिवेन राजेशकुमार-नाम्ना आचार्यदेवव्रतस्य नियुक्तेः सम्बन्धिन्याः राष्ट्रपतिः द्रौपदी-मुर्मुः इत्यस्याः अधिसूचना अपि पठिता। कार्यक्रमस्य आरम्भः राष्ट्रगीत-राज्यगीताभ्यां कृतः, समापनं राष्ट्रगीत-गायनेन जातम्। शपथग्रहणस्य अनन्तरं राज्यपालाय भारतीय-नौसेनया विशिष्टं सम्मानं दत्तम्।
---------------
हिन्दुस्थान समाचार