बिहारे द्वदिनेभ्यः जायते वर्षा, 13 जिलाभ्यः पीतसंकेतः सूचितः
पटना, 15 सितंबरमासः (हि.स.)।बिहारराज्ये उष्ण–आर्द्रगर्मतायाः अनन्तरं वर्षाकालस्य प्रभावः द्विदिनात् प्रवर्तमानः अस्ति। रविवासरे आरब्धा निरन्तरवृष्टिः सम्पूर्णराज्यं तापनात् मोचितवती। सोमवासरेऽपि स्थितयः तादृश एव आसन्। पाटलिपुत्रं सहितं गया–भोजपुर–मुङ
चमक की फाइल फाेटाे


पटना, 15 सितंबरमासः (हि.स.)।बिहारराज्ये उष्ण–आर्द्रगर्मतायाः अनन्तरं वर्षाकालस्य प्रभावः द्विदिनात् प्रवर्तमानः अस्ति। रविवासरे आरब्धा निरन्तरवृष्टिः सम्पूर्णराज्यं तापनात् मोचितवती। सोमवासरेऽपि स्थितयः तादृश एव आसन्। पाटलिपुत्रं सहितं गया–भोजपुर–मुङ्गेर–समस्तिपुर–किशनगञ्जादयः अनेके जिलाः प्रचण्डवृष्ट्या पीडिताः।

भारतीयवातावरणविभागेन चेतावनी प्रदत्ता यत्, आगामिपञ्चदिनपर्यन्तं एषा वर्षाधारा निरन्तरा भविष्यति। तस्मात् नदीनां जलस्तरः वर्धिष्यते, बाढाः च सम्भाव्याः। उष्ण–आर्द्रतायाः तु निवारणं जातम्, किन्तु जलावरोधः यातायातविघ्नश्च नवः शिरोवेदनारूपः जातः।

वातावरणविभागस्य मतानुसारं पूर्वोत्तरबाङ्ग्लादेश–असमप्रदेशयोः उपरि स्थितं चक्रवातीयतन्त्रं, बंगालसागरस्य उपरि सक्रियः अल्पदाबक्षेत्रश्च, बिहारराज्यस्य वातावरणं विचलितवन्तौ। समुद्रात् आगता आर्द्रता कारणं भवति यत्, एषा वर्षाधारा 20 सितम्बरपर्यन्तं प्रवर्तिष्यते।

वातावरणविभागेन त्रयोदश–जिलेषु पीतसङ्केतः दत्तः, यत्र अति–प्रचण्डवृष्टेः आशङ्का वर्तते। तेषु प्रमुखाः – किशनगञ्ज, अररिया, पश्चिम–चम्पारण, गोपालगञ्ज, वैशाली, सारण, समस्तिपुर, खगडिया इत्यादयः। एवं पाटलिपुत्र, मुङ्गेर, भोजपुर, बेगूसराय, शेखपुरादिषु मध्यम–प्रचण्डवृष्टयः निरन्तरं भविष्यन्ति।

वज्रपातस्य आशङ्का विशेषतः उत्तर–दक्षिणबिहारस्य ग्राम्यप्रदेशेषु अस्ति। गङ्गा–कोसी–बागमतीनदीनां जलस्तरः शीघ्रं वर्धते। उत्तराखण्डवृष्टेः प्रभावोऽपि अत्र दृश्यते।

---------------

हिन्दुस्थान समाचार