Enter your Email Address to subscribe to our newsletters
रायपुरम्, 16 सितंबरमासः (हि.स.)।वित्तीयवर्षे २०२५–२६ इत्यस्मिन् भारतसर्वकारेण छत्तीसगढराज्याय १३० कोटि रूप्यकाणाम् अतिरिक्तराशिः विमोचिता। एवं प्रकारेण प्रधानमन्त्रीजनारोग्ययोजनायाः कृते राज्यसरकाराय अद्यावधि ५०५ कोटि रूप्यकाणां प्राप्तिः अभूत्। अस्याः राशेः कृतेन राज्ये निजीअस्पत्राणां दावेभ्यः निरन्तरं भुगतानं क्रियते।एषा सूचना मङ्गलवासरे छत्तीसगढस्य स्वास्थ्यमन्त्री श्री–श्यामबिहारी–जयसवालस्य कार्यालयात् प्रदत्ता। उल्लेखनीयम् यत् छत्तीसगढस्य स्वास्थ्यमन्त्री श्यामबिहारी–जयसवालः पूर्वमेव अवदत् यत् राज्ये आयुष्मानभारत–प्रधानमन्त्रीजनारोग्ययोजनायाः अन्तर्गतं पञ्जीकृतैः निजीअस्पत्रैः आयुष्मान–कार्डधारकानां रोगिणां उपचारः निरन्तरं क्रियते।वर्तमानकाले प्रतिदिनं प्रायः १६००–१७०० दावाः प्रस्तुत्यन्ते, येषां राशिः प्रतिदिनं ४ कोटि रूप्यकाणांाधिकं भवति
---------------
हिन्दुस्थान समाचार